________________
अधिकार ११ / श्लोक २५४ / सुदर्शनश्रेष्ठिकथा
२७५
ममाप्यम्बरचारित्वं, भवितास्य प्रभावत: । नमोऽर्हद्भ्य इतीयन्ति, सञ्जग्राहाक्षराणि सः ॥२२॥ ततस्तद्घोषयत्युच्चै-यंत्र वा तत्र वा स्थित: । भोजनाद्यपि कुर्वाणो, नो विरमति घोषणात् ॥२३॥ अन्यदा घेष्ठिना प्रोक्तः किमुच्छिष्टः पठस्यमुम् । महामन्त्रं महाभाग, ! सर्वकल्याणकारणम् ॥२४॥ अयं हि सर्वमन्त्राणां, विद्यानां शुभसम्पदाम् । कल्याणानां च सर्वेषां, परमं कारणं मत: ॥२५।। तदहो शोभने स्थाने, शुचीभूतेन यत्नतः । ध्यातव्योऽयं महामन्त्र, आत्मनो हितमिच्छता ॥२६॥ बभाण सुभगो नाहं, शक्नोम्यासितुं क्षणम् । विना श्रेष्ठिन्नमुं मन्त्रं, प्राणेभ्योऽप्यतिवल्लभम् ॥२७॥ तन्मा भाणी: किमप्यत्र, कार्ये कार्यविचक्षण ! । श्रेष्ठिना भणितं वत्स!, मनोऽभिरुचितं कुरु॥२८॥ अयमर्हनमस्कारः, पवित्रो मङ्गलालय: । भविता श्रेयसे तुभ्यं, तन्मा त्याक्षी: कथञ्चन ।।२९॥ इत्युक्ते श्रेष्ठिना तूष्णी-भावं कृत्वा व्यवस्थित: । तत: स्वपूर्वकार्याणि, सर्वाण्यपि करोत्यसौ ॥३०॥ गृहीत्वा महिषी: सोऽपि, गतवान्नन्यदा बहि: । कथञ्चित्ताश्चरन्त्यश्च, गङ्गापरतीरं ययुः ॥३१॥ तासां निवारणायाथ', तन्नमस्कारपूर्वकम् । ददौ गङ्गाजले झम्पां, तटीत: सुभगो जवात् ॥३२॥ विद्धोऽतितीक्ष्णकीलेन, निपतन् क्वापि मर्मणि । मृतश्च दैवयोगेन, स्मरन् पञ्चनमस्कृतिम् ॥३३।। वृषभदासभार्याया:, कुक्षौ समुदपादि स: । अर्हद्दास्यभिधानाया:, सुन्दरस्वप्नसूचितः ॥३४॥ अथ पञ्चसु मासेषु, गतेषु समजायत । अर्हद्दास्यां जिनाधीश-पूजाकरणदोहदः ॥३५॥ श्रेष्ठिनापि च विज्ञाय, स्वविभवानुसारत: । अमारिघोषणार्थं च, भूरिदानं प्रयच्छता ॥३६।। सद्धं पूजयता सर्वं, सर्वचैत्येषु सन्ततम् । अष्टौ दिनानि सम्भूत्या, चक्रे महामहोत्सवम् ॥३७॥ इत्थं विदधता तेन, सर्वचैत्यमहामहम् । पूरिते दोहदे पश्चा-तुष्टा गर्भमुवाह सा ॥३८|| कालक्रमेण सञ्जात-स्तस्या: शोभनवासरे । दारक: स्वप्रभाजालैः, प्रद्योतयन् दिशो दश ॥३९।। द्वादशाहे च सम्पूर्णे, महामहपुरस्सरम् । सुदर्शन इति ख्यातं, तस्य नाम प्रतिष्ठितम् ॥४०॥ वपुषा सत्कलाभिश्च, वर्धमानो दिने दिने । सितपक्षे यथा चन्द्रो, जनतानन्दकारकः ॥४१॥ आरुरोह पुरस्त्रीणां, मन:सङ्क्षोभकारकम् । कृतलोकलोचनानन्दं सुन्दरं नवयौवनम् ॥४२॥
अथ सागरदत्ताख्य-श्रेष्ठिनो वरकन्यकाम् ।
मनोरमाभिधां पित्रा, विभूत्या परिणायित:॥४३।। श्रेष्ठिना गृह्णता दीक्षां, स्थापितो निजके पदे । सुदर्शन: सतां मान्यः, सर्वदैव सुदर्शनः ॥४४॥ यो बुद्धया त्रिदशाचार्य, रूपेण मकरध्वजम् । सुविशुद्धचरित्रेण, विचिक्षेप मुनीनपि ॥४५॥ लसल्लावण्यसम्पूर्णं, सारसौन्दर्यसंयुतम् । यदीयं वपुरालोक्य, सञ्चुक्षुभुः पुरस्त्रिय: ॥४६॥ यस्यास्यं सत्यवाक्येन, सद्विवेकेन मानसम् । गरीरं च मनोहारि, रूपलक्ष्म्या विभूषितम् ॥४७॥ दाक्षिण्यादिगुणग्रामो, यस्य शङ्खसमुज्ज्वल: । अशेषं धवलयत्युच्चैः, परिभ्राम्यन् जगत्त्रयम् ॥४८॥ १°णाय-RICT
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org