________________
२७४
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
अथ शील एव दृष्टान्तद्वयं सूचयन् वृत्तमाह
विशालशीले सरल: सुरूपः, सुदर्शन: श्रेष्ठिसुतो निदर्शनम्, । महासती पालितशुद्धशीला, ज्ञातं द्वितीयं त्विह शीलसुन्दरी।२५४।
वृत्तमिदं सुगमं नवरं ज्ञातमिति दृष्टान्तम् उदाहरण आहरणमिति पर्यायाः॥२५४||
इदं च दृष्टान्तद्वयं ब्रह्मचर्यलक्षणं शीलमधिकृत्य वेदितव्यं, तत्र तावत् सुदर्शनश्रेष्ठिदृष्टान्त: कथ्यते, तद्यथाअस्त्यत्र भारते वर्षे, पुरग्रामादिसङ्कुल: । अङ्गानामवरो देशो, भूमिस्त्रीतिलकोपमः ॥१॥ तत्रास्ति सर्वतो रम्यै-रुत्तुङ्गैः सुरमन्दिरैः । रम्या सुरपुरीवोच्चै-श्चम्पा नाम महापुरी ॥२॥ बभूव तत्र भूपालो, दातृवाहननामकः । नम्राशेषमहीपाल-मौलिमालार्चितक्रम: ॥३॥ देवी तस्याऽभयानाम, धाम सौभाग्यसम्पदाम् । पदं कलाकलापस्य, रूपश्रीकुलमन्दिरम् ॥४॥ तस्याश्च पण्डिता नाम, धात्री विज्ञानशालिनी । पण्डिता सर्वकार्येषु, दक्षा परप्रतारणे ॥५॥ आसीच्च तत्र जैनेन्द्र-धर्मकर्मपरायण: । श्रेष्ठी वृषभदासाख्य:, ख्यात: सर्वत्र सद्गुणैः ॥६।। अर्हदासीति विख्याता-ऽभवत्तस्य सुगेहिनी । पत्यौ भक्ता गुणैर्युक्ता, रक्ता सर्वज्ञशासने॥७॥ श्रेष्ठिवृषभदासस्य, महिषीरक्षकोऽभवत् । धर्मप्रियः प्रकृत्यैव, सुभगाख्य: शुभाशयः ।।८।। अन्यदासौ समादाय, महिषीर्गतवान् बहिः । तत्रापश्यत्तपोलक्ष्म्या, युक्तं गुप्तजितेन्द्रियम् ।।९।। कायोत्सर्गस्थितं शान्तं, निशान्तं गुणसम्पदा । पादैरस्पृष्टभूभागं, विद्याचारणसन्मुनिम् ॥१०॥ तं दृष्ट्वा चिन्तयन्नेवं, धन्योऽयं पुण्यवानयम् । एतस्य श्लाघ्यते जन्म, जगाम मुनिसन्निधौ ॥११॥
आसन्नभविकत्वेन, प्रादुर्भूतशुभाशय: । भक्त्याभिवन्द्य तं साधु, पर्युपास्ते क्षणान्तरम् ।।१२।। विकाल इति विज्ञाय, गृहीत्वा महिषीस्तत: । स्मरन्नेव मुनिं चित्ते, गतोऽसौ निजमन्दिरे ॥१३॥ विधाय निजकं कर्म, महिषीदोहनादिकम् । सुष्वाप स्वोचिते स्थाने, विबुद्धश्चिन्तयत्यदः ॥१४।। अहो अद्य पतत्युच्चैः, शीतं जीवितनाशकम् । गृहेऽपि प्रावृतस्यापि, येन मे कम्पते वपुः ।।१५।। स पुन: सन्मुनिस्तत्र, शून्यारण्ये व्यवस्थित: । अप्रावृतो निराधारः, कथं शीतं सहिष्यते ? ॥१६॥ इत्यादि ध्यायतस्तस्य, रात्रि: क्षयमुपागता । तत उत्थाय कृत्वा च, कृत्यं तत्समयोचितम् ॥१७॥ गत: पूर्वक्रमेणासौ, साधोस्तस्य पदान्तिकम् । भक्त्यावनतगात्रश्च, ववन्दे तं मुनीश्वरम् ॥१८॥ अत्रान्तरे दिशां चक्रं, प्रद्योतयन् दिवाकरः । समुद्गतस्तिरस्कृत्य, तमिस्रातिमिरोत्करम् ॥१९॥ नमोऽर्हद्भ्य इति प्रोच्य, सोऽपि साधु: समाहितः । सुभगस्येक्षमाणस्य, प्रोजगाम विहायसा ॥२०॥ तेनाचिन्ति महामन्त्र-मुच्चचार कमप्ययं । गतस्तेन महावेगा-त्क्षणादेव नभस्तलम् ।।२१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org