________________
अधिकार ११ / श्लोक २४६-२५३ / शीलमहिमा
२७३
२७३
सिंहासनायते शूला, कालकूटं सुधायते । मालायन्ते च शस्त्राणि, येषां शीलं समुज्ज्वलम् ॥२५२॥ शीलसारगुणाऽऽकृष्ट-चेतसोऽमृतभोजिनः । आगच्छन्ति स्मृताः सन्तो, व्रजन्ति च विसर्जिताः ॥२५३॥
यौवनेऽपि समारूढा इति व्यक्तम्, वृद्धायन्ते वृद्धा इवाचरन्ति, विवेकिनो विवेकवन्त:, अनाचारे ब्रह्मचर्यभङ्गरूपे, नप्रवर्तन्तेज़ सजन्ते, शीलमालिन्यभीरव: शीलकलङ्गताभीता इत्यर्थः ॥२४७॥ वधबन्धने त्यादि श्लोक: सुगम ॥२४८॥ विश्वासकारणमिति विश्वासो विनम्भः, तस्य कारणं शीलमित्यादि सुगमम् ॥२४९।। तथा शीलाभरणेन इति, शीलमेवाभरणं तेन ये नित्यमित्यादिस्पष्टम् ।।२५०।। तथा करीत्यादि, करी-केशरि-शार्दूल-सपोऽनलजलानि हस्ति-सिंह व्याघ्र-भुजङ्ग-ज्वलन- पयांसि, अमी एते प्रत्यक्षा: शीलवन्त:, स्तम्भयन्ति शक्तिभ्रंशेन दूरस्थान्येव नियन्त्र्य धारयन्ति, सुशीला: शीलमन्त्रत इति व्यक्तम् । उक्तञ्च-थंभेइ सीह-सदूल-गयवरे सप्प जलण सलिलाई।
निम्मलसील गुणड्ढो, पुरिसो वरसीलमंतेण ॥१॥॥२५१॥
तथा सिंहासनायते, सिंहासनमासनविशेष:, तद्वदाचरति शूला कीलकविशेष: प्रतीत एव, कालकूटं विषं सुधायतेऽमृतमिवाचरति, मालयन्ते माला: पुष्पादिस्रजस्ता इवाचरन्ति शस्त्राणि खड्गादीनि, उपचाराच्छस्त्रप्रहारा अत्र गृह्यन्ते, येषां प्राणिनां शीलं समुज्ज्व लमिति ॥२५२॥
तथा शीलेत्यादि शीलमेव सारगुणस्तेनाकृष्टचेतसः शीलसारगुणाकृष्टचेतसोऽमृतभोजिनो देवा आगच्छन्त्यायान्ति स्मृता ध्याता: सन्तो व्रजन्ति गच्छन्ति, च: समुच्चये, विसर्जिता मुत्कलिता: सन्त इति उक्तं च
देविंददाणविंदा, खयरिंदरिंदददिणइंदा ।
पणमंति भत्तिसारं, पयजुयलं सीलवंताणं ॥१॥ इति श्लोकसप्तकार्थः, ॥२५३||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org