________________
२६६
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
__उक्ता: प्रकरणकारसूचिता: श्रेयांसादिदृष्टान्ता: अथादिशब्दसूचिता: शालिभद्रादिदृष्टान्ता: प्रदर्श्यन्ते तत्र शालिभद्रदृष्टान्त: संक्षेपतस्तावदयं
अस्त्यत्र मगधादेशे, पुरं राजगृहाभिधम् । तत्रासीत् श्रेणिकोराजा, चेल्लणा तस्य सत्प्रिया। इतश्च धन्यका नाम, नारी व्युच्छिन्नवंशका । सङ्गमाख्यं सुतं लात्वा, शालिग्राममुपागता॥ तत्र च वत्सरूपाणि, चारयति स सङ्गमः । तावद्यावददौ भक्त्या, साधवे वरपायसम् ॥३|| यसं।३। भूरि स्वयं च तद् भुक्त्वा, मृत्वा राजगृहे पुरे । गोभद्रधनिभद्राऽऽख्य-भद्रागर्भे समागतः॥ जात: पित्रा कृतं नाम, शालिभद्र इति स्फुटम् । द्वात्रिंशत्कन्यका याव-त्परिणीता मनोरमाः ॥५॥ यावच्च तत्पिता मृत्वा, जातो देवो महर्द्धिकः । सर्वांश्च शालिभद्रस्य, पूरयति मनोरथान् ॥६॥ यावत्कम्बलवृत्तान्तात्, श्रेणिको तद्गृहे ययौ । यावत्प्रभुरिति श्रुत्वा, शालिभद्रो व्यचिन्तयत् ॥७॥ यावद्धर्म: श्रुतस्तेन, धर्मघोषपदान्तिके । यावदेकैकशो नित्यं पत्नीनां प्रविमोचनम् ॥८॥ दीक्षा यावच्च धन्यस्य, जाता वीरजिनान्तिके । यावच्च शालिभद्रोऽपि प्रवव्राज जिनान्तिके। यावत्स्वमातृहस्तेन, सञ्जातं तस्य पारणम् । विधायानशनं यावद्गत्वा वैभारपर्वते॥१०॥ पादपोपगमं कृत्वा, शालिभद्रश्च धन्यक: । स्थितौ तौ तत्र यावच्च, माताऽऽयाता नृपस्तथा ॥११॥ अथ द्वावपि तौ साधू, कालं कृत्वा समाधिना । उत्पन्नावुत्तमौ देवौ, सर्वार्थाख्यविमानके ॥१२॥ सिद्धिसौख्योपमं तत्र, भुक्त्वा सौख्यं निरन्तरम् । सागराणि त्रयस्त्रिंश-ततश्च्युत्वात्र सेत्स्यत: ॥१३॥ इति परमपवित्रं शालिभद्रस्य साधो-श्चरितमिदमुदारं सारसंवेगकारि। विहितभविकमोदं सम्यगाकर्ण्य लोकाः, कुरुत विरतिमुच्चै र्गेहसङ्गं विमुच्य ॥१४॥
॥ इति शालिभद्रकथानकं समाप्तम् ।।
एवमन्येऽपि विधिदानमाश्रित्य वसुतेज:प्रभृतयो द्रष्टव्या: । उक्तं च
वसुतेओ धणधम्मो, धरणिधरो चेव बंधुधम्मो य ।
बुहजणपसिद्धंगाई, विहिदाणे होंति नायाई ॥१॥ इमानि ज्ञातानि पुनर्हरिभद्रसूरिकृतकथानककोशादवसेयानि
इति दानाधिकारः परिसमाप्तः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org