SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २६७ शीलाधिकारः ११ उक्तो दानाधिकार: । सम्प्रति शीलाधिकार उच्यते । अस्य चायमभिसम्बन्ध: पूर्वत्र दानं सप्रभेदं वर्णितं, दानं पुनरुदाराशयैरेव क्रियते, शीलमप्युदारचित्तैरेव पालयितुं शक्यते, नेतरैरतोऽत्र शीलमुच्यते, तत्र शीलं भेदौ दर्शयन् श्लोकद्वयमाह शीलं चित्तसमाधानं, तच्च द्वेधा प्रकीर्तितम् । सर्वतो देशतश्चैव, सर्वतः साधुसत्क्रिया ॥२४१।। देशतः सदनुष्ठानं, श्रावकाणां जिनोदितम् । अथवा शीलशब्देन, ब्रह्मचर्यं निगद्यते ॥२४२॥ 'तत्र शील समाधाविति धातुपाठात् शील्यते सर्वसत्त्वानामबाधया सूत्रानुसारेण प्रवर्तनादात्मा समाधाने स्थाप्यतेऽनेनेति शीलंचारित्रं, चित्तसमाधानं कषायतापविरहाच्चित्तनिर्वाणं, तच्च तत्पुनद्वैधा द्विप्रकारं प्रकीर्तितं कथितं सर्वत: सर्वं हेयं वस्तु समाश्रित्य, देशतो देशेन हेयमाश्रित्य। चैवेति समुच्चये, तत्र सर्वत:साधुसत्क्रियासाधुसदनुष्ठानमित्यर्थ: देशतो देशमाश्रित्य श्रावकाणांसदनुष्ठानं देशविरतिलक्षणं जिनोदितं जिनप्रणीतं, अथवेति प्रकारान्तरसूचकः, शीलशब्देन शीलध्वनिना ब्रह्मचर्यं चतुर्थव्रतं निगद्यते कथ्यत इति श्लोकद्वयार्थः ॥२४१-२४२।। अथास्य पर्यायशब्दानाह शीलं वृत्तं च चारित्रं, विरतिश्चरणं तथा । धर्म: संयम इत्याद्याः, शब्दा एकार्थवाचकाः ॥२४३॥ श्लोकोऽयं सुगम एव ॥२४३।। अस्यैव शीलस्य ये पालकास्तान् दर्शयन् श्लोकद्वयमाह पालयन्ति पुनश्चैत-द्विशुद्धं सर्वसाधवः । पञ्चधा चरणोद्युक्ताः, पञ्चधाऽऽचारकारिणः ॥२४४॥ कालोचितक्रियासक्ताः, सामाचारीत्रयोद्यताः । परीषहोपसर्गाणां, जेतारो विजितेन्द्रियाः ॥२४५॥ १ शीलं - BICH Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy