________________
अधिकार १० / श्लोक २४० / कृतपुण्यकथानकम्
२६५
धर्म: सर्वार्थानां, प्रसाधको मोक्षसौख्यलक्ष्म्याश्च ।
धर्मो दारिद्यमहा-चलस्य निर्दलनवरकुलिशम् ॥१५५।। धर्मेण पूर्वसुकृतेन सुन्दरा भवति भोगसल्लक्ष्मी: । तदहो स एव कार्य:, शिवसुखसम्पत्तिमिच्छद्भिः॥ श्रुत्वेदं सर्वापि हु, पर्षत्संवेगमागता धनिकम् । कृतपुण्यकोऽपि पृच्छति, शीर्षे संस्थाप्य करकमलम्॥ भगवन् ! किं पूर्वभवे, कृतं मया येन संपदीदृक्षा। भोगाश्च सुन्दरतरां:, सञ्जाता: सान्तराया मे?॥ भगवांस्ततस्तस्मै, कथयति नि:शेषमेव तच्चरितम् । श्रुत्वेदं कृतपुण्य-स्ततो गत: परमसंवेगम्॥१५९॥ संस्मृत्य पूर्वजाति, भणति विशेषेण विस्मयापन्न: । एवमिदं भुवनगुरो !, जातिस्मरणान्मया ज्ञातम्।। सम्प्रत्यपि तत्स्वामिन् !, पृष्ट्वा राजादिकान् ग्रहीष्येऽहम् । निःशेषसौख्यमूलं, प्रव्रज्यां भूरिभवहरणीम्॥ मा कार्षीः प्रतिबन्धं, जिनेन भणिते ततो गृहं गत्वा । राजादीनापृच्छय च, कृत्वा सामग्रिकां सर्वाम्॥ विनियोज्य निजं द्रव्यं, चैत्यसङ्घादिके शुभे स्थाने । तदसौ नृपादिलोकैः, सर्वैरनुगम्यमानश्च ॥१६३।। सप्तभिरपि प्रियाभि:, सहैव शिबिकोत्तमां समभिरूढः । सम्प्राप्तश्च जिनान्ते, प्रणम्य वीरं भणत्येवम्॥ भवशतसहस्रमथनीं, जननीं स्वर्गापवर्गसुखलक्ष्म्या:-। ताभि: सह प्रियाभि-र्दीक्षां मे दीयतां नाथ!। भगवानपि तां दत्ते, सहानुशिक्षां तत: समर्पयति । तंगणधरस्य साधु, वतिन्यश्च चन्दनार्यायाः॥१६६॥ तदनु गृहीत्वा शिक्षा, द्विविधामपि दुष्करं तप: कृत्वा । संलिख्य निजं देहं, समं कषायैर्विशेषेण॥१६७|| अन्ते समाधिनाऽसौ, मृत्वा सर्वर्द्धिसङ्गतविमाने । सुरलोके शक्रसम:, समजनि देवो महातेजा: ।।१६८॥ यदतुलधनयुक्ते जन्म जातं कुलेऽस्य, निरूपमगुणयुक्ता यच्च भार्या बभूवुः । यदपि सुरसमाना जज्ञिरे भूरिभोगा-स्तदिह फलमशेषं साधुदानस्य तस्य ॥१६९॥ यदकृत रसयुक्ते पायसस्थालकेऽसौ, मुनिवितरणकाले तत्र रेखाद्वयं स: । झटिति घटितशुद्धस्वीयभावानुभावा-जनविदितमभूवन् सान्तरास्तेन भोगा: ॥१७०॥ इति विभवसुभोगाभोगसौभाग्यकारि, फलमविकलमेवं साधुदाने विलोक्य । विपुलतरगुणश्रीपात्रपात्राय लोका, वितरत वरभक्त्या भक्तपानादि शुद्धम् ॥१७१॥
इति कृतपुण्यकथानकं परिसमाप्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org