________________
२६४
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
आकर्येदं वाक्यं, शीघ्रं कण्डूयकस्तमानीतवान् । क्षिप्तश्च नदीमध्ये, स्थलोऽयमिति तन्तुको नष्टः ।। तदुपद्रवाद्विमुक्त:, सेचनककरी समागतो गेहे। पृष्टं च ततो राज्ञा, केनैष मणि: समानीत: ॥१२९॥ कण्डूयक: प्रकथित-स्ततश्च चिन्तापरो नृपो ब्रूते। अभय ! कथं दातव्या?, कन्यास्माभिरस्य नीचस्य॥ अभयोऽपि प्रतिजल्पति, गेहेऽस्य न सम्भवन्ति रत्नानि । अयमेव समुत्पत्तिं, प्रपृच्छयतामस्य रत्नस्य॥ राज्ञापि तत: पृष्टः, सत्यं भो ब्रूहि कथमिव तवायम् । तेनापि नरेन्द्रभया-द्यथास्थितं सर्वमाख्यातम्॥ आहूय ततो राज्ञा, दत्ता कृतपुण्यकाय सा कन्या । राज्यस्यार्धेन समं, तेनाप्यूढा महर्या तु ॥१३३।। अभयेन ततो भणितं, भवन्ति रत्नाकरेषु रत्नानि । कण्डूयकोऽपि राज्ञा, विसर्जित: समुचितं दत्त्वा॥ भुङ्क्ते विशिष्टभोगा-नभयकुमारेण सह सदा विलसन् । अन्यदिने वचनमिदं ब्रूतेऽभयकुमारमनुसृत्य। अत्रैव पुरवरेऽन्या-श्चतम्र: सन्ति मम वरा भार्याः । सुतवत्य: स्नेहपरा, न च गेहमहं विजानामि॥ उक्तमभयेन कथमिव, कथितं तेनापि मूलत: सर्वम् । वयमपि बुद्धया विजितास्तयेत्यभयो वदत्येवम्॥ एवंविधमपि कार्य, कृत्वैषात्रैव निवसते यस्मात् । अस्माभिरपि न विदिता, अहो सुनैपुण्यमेतस्याः॥ तत्तिष्ठ निश्चितस्त्वं, सम्प्रति जानामि तव कलत्राणि । इत्युक्त्वा देवकुलं, द्विद्वारं कारितं रम्यम्॥१३९॥ यक्षप्रतिमा तत्र तु, कृतपुण्यकरूपधारिणी विहिता। उद्घोषितं च नगरे, यथा सपुत्रा सकलनार्यः॥ यक्षस्य पूजनार्थं, पूर्वेणायान्त्वपरतो यान्तु । विपरीतकृते तासां, भविता-भवं घोर उपसर्गः ॥१४१॥ एवं श्रुत्वा सर्वः, स्त्रीवर्गो बालडिम्भपरिकीर्ण: । आगंतवानथ ता अपि, तत्रायाता: समं डिम्भैः ॥१४२।। अथ यक्षप्रतिमाया-स्तस्यास्ते डिम्भका: समुत्सङ्गे । आरूढा जल्पन्त-स्तातस्तातोऽयमिति तुष्टाः॥
एकान्तदेशसंस्थौ, निष्क्रान्तावभयकुमारकृतपुण्यौ।
अपि सम्प्रेक्ष्य तकौ [ता], लज्जातोऽधोमुखा जाता: ॥१४४॥ अभयेनाहूयासौ, वृद्धा निर्भर्सिता खरवचोभिः । गाढं यथा तथा सा, पपात पदयोयोरपि हि॥ इति सप्तभि: प्रियाभिः, सह भुञ्जानस्य विषयसुखमुच्चैः । भूयान् गत: कालो, राजश्रीभूषिताङ्गस्य॥ अत्रान्तरे च वीर:, सुरवरनरविसरविनतपदयुगल: । गुणवत्साधुचतुर्दश--सहस्रपरिवारित: श्रीमान्।। वरविमलकेवलकरै-र्मथितमहामोहवितततिमिरौघ: । गुणशीलके सुरवर-कृतसमवसृतावागतो वीरः। अथ वर्धापकपुंसा, शीघ्रमागत्य जिनवरागमनम् । आख्यातं नरपतये, कृतपुण्याऽभयसमेताय ॥१४९।।
आकर्ण्य जिनागमनं, हर्षवशोल्लसितबहलरोमाञ्चाः। --
सर्वेऽपि समयविधिना-ऽभिवन्द्य तत्रैव जिननाथम् ॥१५०॥ वर्धापकपुरुषाय च, दत्त्वा बहु पारितोषिकं दानम् । तत्समयसमुचितां ते, कृत्वा सामग्रिकां सर्वाम्॥ सर्वद्धर्या सम्प्राप्ता, जिनान्तिकं समभिवन्द्य विधिपूर्वम् । उपविविशुरुचितदेशे, सर्वे शुश्रूषवो धर्मम्॥ अथ कर्णसुखदसलिल-जलधरगम्भीरधीरघोषेण । प्रारेभे भुवनगुरु-र्भवहरणीं देशनामेवम्॥१५३।। भो भो भव्या! भवसागरेऽत्रपततां शरीरिणामुच्चैः। सद्धर्म एव कुरुते, तारणमिह सादरं विहितः॥१५४||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org