________________
अधिकार १० / श्लोक २४० / कृतपुण्यकथानकम्
२६३
पृष्टा च तत: श्वश्रू-र्यथाम्ब ! तव सम्मतेन सम्बलकम् ।
एतस्य किमपि कुर्मो, यथेप्सितं कुरुत साऽवोचत् ॥१०२॥ ताभिस्तत: सहर्ष, सुन्दररत्नानि मोदकेष्वत: । क्षिप्तानि प्रच्छन्नं, सुखी भवत्विति विकल्पेन ॥१०३॥ कृत्वा मोदकपूर्णा, स्थपिकास्य निवेशिता शिरोदेशे । श्वश्वा प्रपाय्य मद्यं, सुखसुप्तक एव कृतपुण्यः॥ उत्पाट्य खट्वया सह, नीत्वा तत्रैव पुनरपि स मुक्तः । यत एव च देवकुला-दानीत: पूर्वमासीच्च॥ अत्रान्तरे स सार्थः, समागतस्तत्र रात्रिरिति कृत्वा । न विवेश नगरमध्ये, विहितावासश्च सन्तस्थौ। ज्ञात्वा समागतं तं, निजकान्तोदन्तबोधनार्थाय । यावत्तत्र तदीया, भार्या शीघ्रं समायाता॥१०७।। तावत्तथैव सुप्तं, पश्यति पर्यङ्क एव निजकान्तम् । सच्छायं च सुवेष, नितान्तमुपचितशरीरं च ॥१०८॥ तं तदवस्थं दृष्ट्वा, सहर्षचित्ता भृशं समुत्थाप्य । आदाय तत: खट्वा-स्थपिकां च गता निजे गेहे॥ कृतपुण्यकोऽपि सुविदित-भावार्थो निजकमन्दिरं प्राप्त: । पश्यति वसन्तसेना, तत्र गतोऽबद्धवेणीकाम्॥ यावच्छतपाकादिभि-रभ्यञ्जनमस्य कर्तुमारब्धम् । तावत्तत्पुत्र: किल, समागतो लेखशालायाः॥ पतितश्च जनकपदयो-र्बुभुक्षितो भोजनं च मार्गयति। न च तत्र किञ्चिदन्नं संसिद्धयति तादृशं तावत्॥ दृष्ट्वा रुदन्तमेनं, वसन्तसेना तत: समाकृष्य । स्थपिकातो वरमोदक-मस्मै तोषाय दत्तवती ॥११३।। सोऽपि गत: सन्तुष्टो, मोदकमादाय लेखशालायाम् । पश्यति च तस्य मध्ये, सुन्दररत्नं महामूल्यम्॥ दृष्ट्वा तदसावानन्द-निर्भरो घुण्टको मया लब्ध: । दर्शितवानन्येभ्यो, मणिरयमिति निगदितं छात्रैः॥ तदमुं दद्म: कुल्लू-रिकाय वरमण्डकादि येनासौ। दत्ते प्रतिदिनमस्म-भ्यमिति भणित्वा ददुस्तस्मै॥११६॥ प्रक्षिप्तस्तेनापि च, निकटस्थितनीरकुण्डमध्येऽसौ । तस्य प्रभावतस्त-त्स्थलमिव प्रतिभासते नीरम्॥ तदसौ तेन ज्ञातो, यथैष जलकान्तसन्मणिनम् । सङ्गोप्य: तत: सम्यग, दत्तं तेभ्यो यथायोग्यम् ॥११८॥ इतश्च-कृतपुण्यकाय कथितं, प्रियङ्गुलतिकाभिधानया चेट्या।
स्वामिन् ! यदा विमुक्तो, वसन्तसेनाजनन्या त्वम् ॥११९॥ तदवेत्य सर्वतोऽपि च, गवेषितो न च प्रवृत्तिमात्रमपि ।
युष्माकं विज्ञातं, विदधाति तत: स्वामिनी चैतत् ॥१२०॥ वेणीबन्धं सितवस्त्र-निवसनं माल्यगन्धपरिहारम् । अतिदुर्धरगतपतिका-व्रतं चरन्ती स्थितवतीयम्॥ कालमियन्तं तव गेह-संस्थिता तुच्छकान्नकृतवृत्तिः । आकर्येदं तामभि, भूयोऽजनि सानुरागोऽसौ॥ अथ चान्यदा प्रपातुं, नीरं नद्या जले समवतीर्ण: । सेचनकराजहस्ती तन्तुकजीवेन निगृहीतः ॥१२३।। पूत्कृतं नृपपुंभिः-स्तत्श्रुत्वाव्याकुलो नृपोजात: । ब्रूते चाभयकुमारो, देव! क्षिप-तत्र जलकान्तम्। यावद्भाण्डागारात्, स कृष्यते लगति तावदुत्सूरम् । अत्यहितं च करिणो, भवति दृढं ननु विमर्दैन । अथ शीघ्रप्रापणार्थं, जलकान्तमणेर्मनुष्यनाथेन। सकलनगरेऽपि तूर्णं, सहसैवं दापित: पटहः॥१२६॥ भो भो ! जलकान्तमणिं, शीघ्रमानीय य: समर्पयति । तस्य नृपो राज्याधु, दत्ते वरकन्यकासहितम्॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org