________________
२६२
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
दानेन सङ्ग्रहीतुं, भणित: प्रच्छन्नमेव गुह्यमिदम् । कर्तव्यं तेनापि च, प्रतिपन्नं झटिति तद्वचनम्।।७७॥
चिन्तयति च सा चित्ते, मम वध्वो भर्तृविरहितास्तावत् ।
अन्यमपि पतिममूषां, करोमि सुतसन्ततिनिमित्तम् ॥७८॥ इति सञ्चिन्त्य बहिष्टा-द्रात्रौ नगराद्विनिर्गता साथ । दृष्टश्च सुखं सुप्त:, कृतपुण्यो देवकुलिकायाम् ॥७९॥ उदपाटि ततश्च तया, पर्यङ्कारूढ एव निजपुरुषैः । मुक्तो निजगृहमध्ये, क्रमेण यावद्विबुद्धश्च ॥८०॥ कण्ठे ततो लगित्वा, क्षणंरुदित्वा च सावदत्येवम्। बालोऽपि हृतस्त्वमितो, वत्सक! मम मन्दपुण्यायाः।। अन्वेषितश्च सकले, भूपीठे पुरनगादिदेशेषु । वार्तापि नैव लब्धा, तेनाहं दुःखिता पुत्र ! ।।८।। अथ पुनमर्म कथित-स्त्वागमो वत्स! मतिमता मुनिना। गेहाच्च निर्गताहं, रात्रौ लब्धश्च सत्पुण्यैः ।।८३॥ दृष्टश्च कल्पवृक्ष:, स्वप्ने गृहमागतो मया पुत्र ! । तन्मे त्वयाद्य साधू, सञ्जातं दर्शनं पुण्यैः ॥८४।।
तत्कुत्र वर्धितस्त्वं ?, कालमियन्तं स्थितश्च वा कुत्र ? ।
किं चापि सुखं दुःखं ?, त्वयानुभूतं तदाचक्ष्व ।।८५॥ अथवेदं मम हृदयं, वज्रशिलासञ्चयेन ननु घटितम् । यत्तव विरहेऽपि दृढं, न गतं शतखण्डमेवेदम्॥ याहं तव विरहेऽपितु, जीवामि सुनिघृणा महापापा। अवतारणकंतु कृता, गुणसागर! तवशरीरस्य ॥८७|| त्वं पुत्र ! देवगुरुभिः, कालमियन्तं सुरक्षितो विधुरे । मज्जीवितेन तदलं, कल्पायुर्भव महाभाग!॥८८॥ सत्तेजसा सतीनां, प्रभावत: सर्वदेवतानां च । परिवय निजवंशं, विलस तथा विभवविस्तारम् ।।८९।। देशान्तरे विपन्नो, भ्रातृजनीनां च पतिरमूषां तु । तच्चतसृणामपि त्वं, कुलभूषण! भव चिरं स्वामी॥९०॥ इति तस्या मतिवैभव-वशरञ्जितमुणितगूढचरितोऽपि । प्रतिपद्यते वचोऽस्या, विस्मयरसकौतुकापूर्णः। अथ ता वध्वोऽपि तया, भणिता नीत्वा रहस्यके स्थाने। एवं स्थिते च कार्ये, विधत्त भर्तारममुमेव॥१२॥ यद्वेदेष्वपि भणितं, क्लीबप्रव्रजितगतमृतेषु रमणेषु । [यौवनवती]रमणीनां, क्रियते पतिरन्यतम एव।। तत्क्षेत्रजमपि पुत्रं, जनयित्वा कुरुत निजकुले रक्षाम् । युष्मत्सत्कं द्रव्यं, मा राजकुले 'गच्छतु ॥९४।। कुन्त्याश्च महासत्या:, पुत्रा अन्यान्यपतिभिरुत्पन्ना: । श्रूयन्ते तद्वत्सा:, प्रतिपद्यध्वं मम वचांसि च।। इत्यादि तया धूर्त्या, तथा तथा शास्त्रलोकयुक्त्योघैः । भणिता यथा तकाभिः, प्रतिपन्नं तन्निर्विचाराभिः ।। अथ तस्य समं ताभि-निबिडतरप्रेमतन्तुबद्धाभि: । भुञ्जानस्य सुभोगान्, सुरलोके सुरवरस्येव ॥९७।। जाता: सुन्दरपुत्रा-स्तासां चतसृणामपि सुरूपा: । क्रमश: समतिक्रान्ता, द्वादश संवत्सराश्चैवम् ॥९८॥ अथ ता बभाषे महिमा, परपुरुषमिमं हला: परित्यजत। सिद्धे स्वकीयकार्ये, सम्प्रति किमनेन विधृतेन? ।। प्रतिभाषितं वधूभि-र्माभाणीर्मातरीदृशं वचनम् । येन वयं परिभुक्ता:, कथमिव नो भवति भर्ता स: ? ।।
रचिता च तया भृकुटि-स्तकाभिरपि तां विलोक्य संरुष्टाम् । भयकम्पितहृदयाभिः, प्रतिपन्नं झगिति तद्वचनम् ॥१०१॥
१गमत्सर्व-BJ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org