________________
अधिकार १० / श्लोक २४० / कृतपुण्यकथानकम्
२६१
आसप्तमश्रेण्या अपि, पर्याप्तकं भविष्यतीदं नः । परमप्यन्यद्दास्यति, मातरयं मामको नाथ: ॥५३॥
न च कुलधर्मेणापि तु, निन्द्यजनासेवितेन मम कार्यम् ।
किञ्चाम्ब ! मत्प्रियोऽयं, गुणरत्नविभूषितो धनिकः ॥५४॥ दुहितुर्निश्चयमेनं, विज्ञायाऽऽकारसंवरं कृत्वा । कार्यं हृदये धृत्वा, तूष्णीका संस्थिता धूर्ता ॥५५॥ रात्रौ तु जने सुप्ते, पर्यङ्के सुप्तमेव निजपुम्भिः । मोचयते देवकुले, वसन्तसेनां समभिवञ्च्य ॥५६॥ निद्राक्षये विबुद्धो, विलोकयत्येष तत्र दिक्चक्रम् । ननु किमिदमिन्द्रजालं, किंवा मतिविभ्रमो मेऽयम् ?॥ किं वापि स्वप्नोऽयं, जात: किं मे विपर्ययश्चैष: । इति चिन्तयंश्च भणितो, निकटस्थितदासचेट्याऽसौ॥
___मा ! कुरु विकल्पजालं, 'त्वं च तया स्वकुलधर्ममनुसृत्य ।
निष्कासितो बलादपि, हे सुभग ! वसन्तसेनया ॥५९।। तद्गच्छ निजे गेहे, येन गृहीत्वा व्रजामि पर्यङ्कम् । श्रुत्वेदं स विषण्णो, निजकं प्रति प्रस्थितो गेहम्॥ तेन च विलोकितं त-न्मनुष्यवर्जितमरण्यमिव घोरम् । असुवर्णालङ्कारं, कुकविजनरचितमिव काव्यम्त ।। पितृवनमिव भीषणं, वनमिव दवदग्धमपगतश्रीकम् । सर इव हिमहतकमलं, गतसारं सैन्यमिव राज्ञः ।। एवंविधं प्रपश्यन्, यावदसौ विशति तत्र साशङ्क: । तावदभ्युत्थितोऽसौ विलोक्य निजभार्यया शीघ्रम्॥ दत्तासन उपविष्टः, पादौ च क्षालितौ ततश्च सा पृष्टा|जननीजनकगृहादिक-मशेषवृत्तान्तकं निजकम्॥ कथितस्तयाश्रुपातं, कुर्वन्त्या मूलत: स वृत्तान्तः । श्रुत्वा तदस्य दुःखं, सञ्जातं नरकगतिसदृशम्॥ सन्धीर्य चात्मानं, स्वयमेवापृच्छते ततो भार्याम् । किं किञ्चिदस्ति वित्तं, तया तदाभरणमादर्शि॥ तच्चैवभाण्डमूल्यं, प्रादाय प्रस्थित: स दिग्यात्राम् । स्थित्वा कतिपयदिवसान्, गृह एव च मित्रलज्जातः॥ कृत्वास्या: फलबन्धं, सार्थे सम्प्रस्थिते तत: सोऽपि । सार्थासन्ने सुप्त:, पर्य” शून्यदेवकुले ॥६८॥ इतश्च - तत्रैव पत्तनवरे, सुधननामा समस्ति वित्ताढ्य: । भार्या च तस्य महिमा, मायासबुद्धिदुर्ललिता॥ धनदत्तो नाम सुत-स्तस्या वररूपयौवनसमेत: । पित्रा ततो विभूत्या, समानवररूपकलितानाम्॥ इभ्यकुलबालिकानां, चतसृणां ग्राहित: करं यावत् । तावज्जनक: पञ्च-त्वमुपगतो दैवयोगेन ॥७१॥ धनदत्तोऽपि कदाचि-द्देशान्तरगमनहेतवे नित्यम् । लोभं दर्शयमानै-र्वनिश्चयं कारितो मित्रैः ॥७२।। शोभनदिने गृहीत्वा, चतुर्विधं भाण्डमुदधिीरेऽसौ । तैरेव समं मित्रैः, सम्प्राप्त: सुभटशतयुक्तः ॥७३॥ आरुह्य यानपात्रं, परतीरं प्राप्य लब्धबहुलाभ: । स्वपुरं प्रति विनिवृत्त:, प्राप्तो यावज्जलधिमध्ये॥७४।।
____ तावन्मृदुभाजनमिव, गिरिशिखरं प्राप्य यानपात्रं तत्।
भग्नं तस्मिन् सोऽपि च, धनदत्त: प्राप्तवान् निधनम् ॥७५|| उद्धरितेनैकेन च, गत्वा पुरुषेण तत्र महिमायै । प्रच्छन्नमिदं गुह्यं, कथितं सम्यक् स च तयापि॥७६॥ १ त्वमं च या- BJ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org