________________
२६०
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
इभ्यधनपालगेहे, कुक्षौ भद्राभिधानभार्याया: । उदपादि ततो लोकः, प्रभाषते एष कृतपुण्यः ।। यश्चैवंविधगेहे, धनधान्यसमृद्धिबन्धुरे धनिकम् । उत्पत्स्यते महात्मा, प्रसूतिसमयेऽथ सञ्जाते ॥२७॥ सूते भद्रा सर्वाङ्ग-सुन्दरं दारकं प्रसृतकान्तिम् । वर्धापितश्च दास्या, सुतोत्पादेन धनपाल: ॥२८॥ अथ गीतनृत्यवादित्र-चित्रवस्त्रादिवस्तुविस्तारम् । श्रेष्ठिजनतुष्टिकरं, सुतजन्ममहोत्सवं कुरुते ॥२९॥
कृतपुण्यक इति भणितो, लोकेनायं यदत्र गर्भस्थो।।
तेन कृतमस्य जनकैः, 'कृतपुण्यक' इति वरं नाम ॥३०॥ क्रमश: प्रवर्धमान:, सकलकलाकौशलान्वितो जात: । तरुणीजनमोहकरं, नवयौवनमथ समारूढः॥ इभ्यवरबालिकाया:, समानवररूपयौवनगुणाया: । जनकैः प्रशस्तदिवसे, विधानतो ग्राहित: पाणिम्॥ यावन्न ददाति मनो, विषयेषु कलासु रसिक इति कृत्वा। भद्रा बभाण ताव-द्धनपालमभीदृशं वचनम्॥ स्वामिन्नयमकृतार्थः, सर्वो धनविस्तरो यतश्चैषः । पुत्रो नि:स्पृहचित्त:, प्रदृश्यते कामभोगेभ्यः॥ तस्मान्नाथ! तथा कुरु, यथा श्रयत्येष कामजसुखेषु । अमुना धनेन किं नो, विलसति यन्नेह कृतपुण्यः॥ धनपालेनाभिहितं, भद्रे! मा वाक्यमीदृशं भाणी: । यस्माद्विनाऽपि शिक्षा-मेतानि भवन्ति यत उक्तम्॥ आहारभयपरिग्रह-मैथुनसंज्ञा विनोपदेशेन । गृह्णन्ति सर्वसत्त्वा-स्तदत्र किं शिक्षया भद्रे ! ॥३७|| किञ्च स्वभावतोऽपि हि, मदनाग्निरङ्गिनां ज्वलत्येव। को वा नाम सकर्णो, दीप्तेऽनौ क्षिपति तृणभारम्॥ भद्राऽपि ततो ब्रूते, यदपीदं प्रियं तथापि मम तोष::| भवतीत्थमेव यस्मा-त्तदेतदविचारितं क्रियताम्॥ निश्चयमवेत्य तस्या-स्ततोऽपि दुर्ललितगोष्ठिमध्येऽसौ । क्षिप्तस्तेन कुमार-स्तया च सह सर्वतो भ्रमति॥ प्रेक्षणकमण्डपादिषु, काननवापीसरोवरादिषु च । भ्राम्यन्नसौ प्रविष्टः, कदाचिद्वेश्याजनगृहेषु ॥४१॥ तत्र च वसन्तसेना-गणिकाया रूपयौवनयुताया: । गेहे सुन्दरसुरतो-पचारचातुर्ययुक्तायाः ॥४२॥ यावच्च तया क्षिप्त:, कामोत्कोचनकथाभिरत्यन्तम् । तावत्तन्मित्रजनो, द्रागेव बहिर्विनिष्क्रान्तः ॥४३॥
स तया निजविज्ञानै-स्तथा तथा रञ्जित: सुरतकाले।
अजनि यथा तच्चित्तो, विनिवृत्त्य मनोऽन्यत: स्वीयम् ।।४४|| भुङ्क्ते तया च सार्धं, यथेच्छया विविधविषयवरसौख्यम् । द्रव्यं च यथाकामं, तत्पितरौ प्रेषत: सततम् ।। इत्थं तत्रावसतो, गातानि पञ्चत्वमस्य जनकानि । ज्ञातानि न तेन तत:, प्रेषयति धनं च तद्भार्या॥ अथ वर्षे द्वादशमे, धनदाश्रमसंनिभं तकनेहम् । द्रव्यक्षयेण जातं, दुर्गतगेहं यथा शून्यम् ॥४७॥ क्षीणे द्रव्ये सर्वे, ततस्तया प्रेषितं निजाभरणम् । तद् दृष्ट्वा कुट्टिन्या, निजचित्ते चिन्तितं चैवम्।४८॥ नूनमयं नि:सार:, सम्प्रति जातस्तया तदाभरणम् । रूपकसहस्रकलितं, पुनरपि सम्प्रेषितं तस्या:।४९। भणिता वसन्तसेना, भद्रे ! परिमुञ्च कामुकमिमं तु । आकृष्टाशेषधनो, यदेष जातोऽतिनि:सारः।५०। अस्माकमेवमेव हि, कुलधर्मो यदुत निर्धनस्त्याज्य: । तत्पुत्रि! कुलाचारं, मा मुञ्च भजस्व धनवन्तम्।। सा जल्पति मा मात-र्भाणीरेवं यतोऽमुना मह्यम् । दत्तं प्रभूतवित्तं, को वाऽन्यो दास्यते चैवम् ॥५२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org