________________
अधिकार १० / श्लोक २४० / कृतपुण्यकथानकम्
२५९
साम्प्रतं कृतपुण्यकथानकं कथ्यतेअस्ति वरविजयकलित:, सम्पूर्णो वाहिनीशतसहस्रैः । पृथ्वीधरकृतसेवो, जम्बूद्वीपो नरेन्द्र इव ॥१॥ तत्रास्ति भरतवर्षे, ग्रामाकरनगरसङ्कुलो रम्य: । मगधाख्यजनपद: खलु, नानाविधपत्तनाकीर्णः ॥२॥ तत्र च नगरं रम्यं, राजगृहं नाम वरगृहोपेतम् । तत्पालयति नरेश:, श्रेणिकनामा निहतशत्रुः ।। रूपेण रतिसमाना, इष्टा: कान्ता: प्रिया मनोज्ञाश्च । तस्याऽऽसन् वरभार्याः, पतिभक्ताश्चेल्लणाप्रमुखाः।।
ताभिः सह वरभोगान्, भुङ्क्तेऽसौ निहितराज्यगुरुभारः। .
मन्त्रिप्रवरे मन्त्रिणि निजपुत्रेऽभयकुमाराख्ये ।।५।। इतश्च जनपदे तस्मि-नेकस्मिन्नस्ति सुन्दरे ग्रामे । एका तर्णकपाली, गुरुतरदारिद्यदुःखार्ता ॥६॥ तस्याश्च सुतो बाल-स्तर्णकपरिरक्षणं प्रकुर्वाण: । एकत्रारण्येऽसौ, यतिजनयोग्ये शुभे देशे ॥७॥ पश्यत्येकं साधु, कायोत्सर्गेण संस्थितं सन्तम् । तपसा शोषितदेहं, तत एवमसौ विचिन्तयति ॥८॥ अस्यैव जन्मजीवित-मानुष्यादीनि जगति सफलानि । यश्चैवमरण्यस्थः, कुरुते विविधं तप:कर्म ॥९॥ मन्येऽस्ति पुण्यलेशो, ममापि येनैव दर्शनं प्राप्त: । तस्मादभिवन्द्यैनं, करोमि पूतं निजात्मानम् ॥१०॥ सञ्चिन्त्यैवं प्रणतो, मुनिवरपदपङ्कजं भक्तियुक्तः । इत्थं दिने दिनेऽसौ, तं साधुं वन्दते भक्त्या॥११॥ प्रतिदिवससाधुदर्शन-वशेन शुभशुद्धयमानभावस्य । तस्यान्यदा कदाचि-जातस्तत्रोत्सव: कोऽपि॥ अथ याचित्वा दुग्धा-दि तत्र नारीजनाच्च तन्मात्रा। निजपुत्रकृते राद्धा, क्षरेयी प्रवररसयुक्ता ॥१३॥ उपविष्टाय च भोक्तुं, सुताय गेहाङ्गणे वरस्थालम् । दत्तं घृतगुडसंयुत-वरपायससम्भृतं कृत्वा ॥१४॥ प्रविवेश च गृहमध्ये, यावत्प्रयोजनेन तज्जननी । तावत्स मुनिः प्राप्तो, य: पूर्वं वन्दितस्तेन ॥१५॥ आलोक्य तमायातं, भक्तिवशोल्लसितबहलरोमाञ्च: । चिन्तयितुं संवृत्तो, हर्षावैजलप्लुतालोकः ॥१६॥ कृतपुण्यसञ्चयोऽहं, त्रीण्यपि यस्येह ममाद्य मिलितानि । सच्चित्तं सद्वित्तं, गुणरत्नयुतं च सत्पात्रम्।१७। अहमेव सकलकल्याण-मालिकास्थानमद्य सञ्जातः । यस्येह ममेदृक्षा, जाता सामग्रिका सकला॥१८॥ एवं च चिन्तयित्वा, कृत्वा रेखाद्वयं निजस्थाले । दास्यामीति त्र्यंशं, भावयन् समुत्थितो बाल:॥१९॥ गत्वा साधुसमीपे, ब्रूते यदि कल्पते तदादत्स्व । विज्ञाय 'शुद्धभावं, मुनिनापि धृतं तत: पात्रम्॥२०॥ तत्र त्रिभागमात्रं, क्षिप्त्वा भूयो विचिन्तयत्येवम् । अत्यन्तस्तोकमिदं, द्वितीयभागं पुन: क्षिपति ॥२१॥ चिन्तितमनेन पुनरपि, यद्यत्र पतेत्किञ्चिदम्ब्लादि । एतत्तदा विनश्यति, दत्ते तदपि त्रिभागं सः॥२२॥ अभिवन्द्य तमुपविष्टः, स्थाने तत्रैव पुनरपि तथैव। साधौ गते च जननी, गृहमध्यांन्निर्जगाम बहिः॥२३॥ दृष्टं तदवस्थं त-नूनं, प्रभुक्तमनेन तत्सर्वम् । एवं परिचिन्त्य तया, पुनरपि परिपूरितं स्थालम्॥२४॥ रङ्कत्वेन च भुक्तं, सर्वं तेनापि तस्मिन्नजीर्णे । रात्रौ मृत्वा शुभभाव-योगतो राजगृहे नगरे ॥२५॥
१ शुद्धिभावो- BJ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org