________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
शक्रस्येदं समाकर्ण्य, वाक्यं श्रुतिसुखावहम् । प्रददौ श्रेष्ठिने सर्वं द्रव्यं वसुमतिर्निजम् ॥ १६५ ॥ ततो निन्ये शतानीक - श्चन्दनां निजमन्दिरे । दीनादिभ्यो महादानं ददती हृष्टमानसा || १६६ || प्रवेशिता च भूपेन, कन्यान्तः पुरमन्दिरे । समीहितार्थसम्पत्त्या, पाल्यमाना च तिष्ठति ॥ १६७॥ वीरस्य केवलज्ञाने, समुत्पन्ने च चन्दना । दीक्षामादाय सम्पूर्णां, सम्पाल्य च शिवं ययौ ॥ १६८ ॥ इति चन्दनाऽऽर्याकथानकं समाप्तम् ॥
२५८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org