________________
अधिकार १० / श्लोक २४० / चन्दनबाला कथा
२५७
कुत्र सर्वोत्तमं पात्रं, क्व च दातव्यमीदृशम् । इति साश्रु सखेदं च, चन्दना गद्गदस्वरम् ।।१३७॥ बभाषे भगवनेते, कल्पन्ते तव माषका: । जिनोऽप्युपयुजे सम्यक्, स्वकीयाभिग्रहं प्रति ॥१३८॥ पूर्यते सर्व एवायं, मदीयोऽभिग्रहोऽधुना । एवं विचिन्त्य वीरेण, तत: पाणि: प्रसारितः ॥१३९॥ चन्दनयाऽपि सानन्दं, विशुद्धाध्यवसायया । तत्रस्थया समुत्थाय, भगवान् प्रतिलम्भित: ॥१४०॥ अत्रान्तरे समुद्भूतानि, पञ्च दिव्यानि तत्क्षणम् । सुवर्णवृष्टि: 'सुराकृष्टिः, सुरदुन्दुभिनि:स्वनः ॥१४१॥ पुष्पगन्धोदवृष्टिश्च, चेलोत्क्षेपश्च पञ्चमः । सुरैरकारि केशाश्च, तस्या मूर्ध्नि पुनर्नवाः ॥१४२।। कुर्वन्ति तारझङ्कारं, पादयोर्निगडान्यपि । सर्वरत्नमयोत्प्रेल-नूपुराणि प्रजज्ञिरे ॥१४३।। अध्यासितं विशेषेण, तद्वपुः सर्वत: श्रिया । श्रुत्वेदमागत: श्रेष्ठी, राजा मन्त्री जनस्तथा ॥१४४॥ दृष्टं च श्रेष्ठिनो गेहं, स्वर्णवृष्टयादिशोभितम् । चन्दना च लसत्कान्त्या, सश्रीकं दधती वपुः॥१४५॥ राजा च वक्तुमारब्धो, विस्मयोत्फुल्ललोचन: । यथा त्वमेव भो श्रेष्ठिन्, ! धन्य: पुण्य: कृतार्थकः ।।१४६॥ यस्येदृशी तवाशेष-गुणसम्पूर्णपुत्रिका । श्रीवीरस्य ययाऽकारि, पारणकं जगत्प्रभोः ॥१४७|| अहमत्र महीपाल-स्त्वं श्रेष्ठी जनविश्रुत: । तथापि श्रीजिनेन्द्रेण, तवैवानुग्रहः कृतः ॥१४८॥ स एव सकलश्रीभिः, सानन्दमवलोक्यते । यस्यैवं भूष्यते पादै-जैनचन्द्रगुहाङ्गणम् ॥१४९॥ यावदेवं नृपस्तत्र, श्रेष्ठिनमभिनन्दति । अन्त:पुरमहल्लेगें, तावद् दृष्टाऽऽर्यचन्दना ॥१५०॥ क्षणेन प्रत्यभिज्ञाता, पतित्वा पादयोस्ततः । रोदितुं च प्रवृत्तौऽसौ, मनोदुःखौघनिर्भरः ॥१५१॥ तथा रुदन्नसौ पृष्टो, राज्ञा विस्मितचेतसा । यथा भो रुद्यते केन, हेतुना कथ्यतां मम ॥१५२।। स जगाद यथा राज-नियं वसुमतिसज्ञिता। चम्पाधिपस्य सत्पुत्री, धारिणीदेहसम्भवा ॥१५३॥ अत्राऽऽयाता महीनाथ !, न जाने केन हेतुना । एतत्पूर्वतरावस्थां, स्मृत्वा स्नेहाच्च रोदिमि ॥१५४|| चन्दनापि ततो राज्ञा, पृष्टा सर्वं तयाऽपि हि । निवेदितं नरेन्द्राय यावद्वीरस्य पारणम् ॥१५५॥ ततो राज्ञा निजोत्सङ्गे, चन्दनाऽभिनिवेशिता । चुम्बिता मूर्धदेशे च, मृगावत्या तथैव च ॥१५६।। अथ चन्दनयाऽवाचि, संसारभ्रान्तिभीतया । यथा राजंस्त्वया देव्या, तातेन च विशेषत: ॥१५७॥ सस्नेहं समनुज्ञाता, संसारोच्छेदहेतवे । धर्मं विधातुमिच्छामि, तन्मां मुञ्चत साम्प्रतम् ॥१५८॥ यतोऽयं घोरसंसारो, महादुःखो महाभय: । सद्भिः सदैव सन्त्याज्य:, स्वात्मन: सुखमिच्छुभिः ॥१५९॥ तत: प्रोक्तं नरेन्द्रेण, धर्मो वत्से! सुदुष्कर: । तदत्रैव यथाकामं, भोगान् भुक्ष्व गृहे मम ॥१६०॥ इत्यादि वदतो राज्ञः, शक्रः प्राह यथा नृप ! । इयं हि चन्दना चारु-चन्द्रचन्दनशीतला ॥१६१।। आद्या श्रीवर्धमानस्य, भविष्यति प्रवर्तिनी । तस्मात्तावत्त्वमेवैनां, पालयस्व नरेश्वर ! ॥१६२।। यावदुत्पद्यते ज्ञानं, लोकालोकप्रकाशकम् । केवलाख्यं जिनेन्द्रस्य, त्रैलोक्यश्रीशिरोमणे: ॥१६३।। तथास्या एव नि:शेष, द्रव्यमेतन्महीपते !, । स्वेच्छया यस्य कस्यापि, ददातुं लातु वा स्वयम्॥१६४॥ १ सुरोक्रुष्टि:- BICT
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org