________________
२५६
आचार्य श्रीवर्धमानसूरिचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
सुगुप्ताख्यस्य तत्रास्मै, दास्या भिक्षोपढौकिता। अगृहीत्वैव निष्क्रान्त-स्तां भगवांस्ततो गृहात् ।। दृष्टमिदममात्यस्य, सुनन्दाभिधभार्यया । पृष्टा च सा यथा भिक्षां, जिन: किं न गृहीतवान् ? ॥१०९॥ तयोक्तमेवमेवासौ, निर्गच्छति दिने दिने । मासश्चतुर्थकश्चास्य, निराहारस्य वर्तते ॥११०॥ तत: सुनन्दयाऽभाणि, कुर्वन्त्या खेदमुच्चकैः । भगवतोऽभिग्रहः कोऽपि, भविष्यतीति मे मतिः ॥१११।। निवेदितममात्यस्य, सोपालम्भमिदं तया । यथा किं सचिवत्वेन, किं वा तव मनीषया ! ॥११२।। यदि त्वं नैव जानासि, जिनेन्द्राभिग्रहागमौ । मन्त्री प्राह न मे ज्ञातो, विहरन् भगवानिह ॥११॥ तेन नाकारि तत्तप्ति- ऽभक्तिर्मे जिनेश्वरे । सुरासुरनराधीश-पूजनीयपदाम्बुजे ॥११४॥ " साम्प्रतं तु यथाशक्त्या, यतिष्ये निश्चितं प्रिये! । यथा विज्ञायते शीघ्रं, जिनस्यायमभिग्रहः ॥११५|| मृगावतिप्रतीहारी, तत्र प्रयोजनागता । विजया नाम श्रुत्वेदं, न्यवेदयन्मृगावते: ॥११६॥ अस्या अपि बभूवोच्च-रधृतिर्जिनभक्तित: । एतन्निवेद्य भूपाय, राज्ञी भूयोऽप्यभाषत ॥११७।। आयातमपि नो वेत्सि, यद्यत्र जिनपुङ्गवम् । यदि वाभिग्रहं तस्य, न पूरयसि किं त्वया ? ॥११८।। पूरयामि तमित्युक्त्वा, समुत्थाय नरेश्वर: । आस्थानमण्डपं गत्वा, समाकार्य [च] मन्त्रिणम् ।।११९।। बभाणेदं यथा मन्त्रि-त्राकारयाखिलानपि । पाखण्डिनोऽत्र वास्तव्यान्, सचिवेनाऽपि तथा कृतम्॥ अथ पाखण्डिन: सर्व, आयाता नृपसन्निधौ । पृष्टा नियमसारूप्यं, तेऽप्याचक्षुः सविस्तरम् ॥१२१।। ततो लोक: समग्रोऽपि, समादिष्टो महीभुजा। एवं प्रदातुमारब्धो, भक्तपानं पदे पदे ॥१२२॥ द्रव्यतश्चित्रद्रव्याणि, मण्डकप्रभृतीन्यलम् । क्षेत्रतो विविधस्थान-स्थायिनो दानदायिनः ॥१२३॥ . कालतो दिवसस्याद्य-मुहर्तप्रहरादिषु । भावतो हास्यगीतादि, कुर्वन्नाक्रन्दनानि वा ॥१२४॥ प्रत्यहं ददतोऽप्येवं, लोकस्यासौ मुनीश्वरः । न किञ्चिदेव गृह्णाति, ततो लोकैर्विचिन्तितम् ॥१२५।। अहो वयमिहाधन्या, नूनं पुण्यविवर्जिताः । अस्माकं जीवितं जन्म, विभवोऽपि निरर्थकः ।।१२६।। येनास्मदीयकं वस्तु, भक्तपानादि किञ्चनं । सद्गुणरत्नपात्रस्य, न जिनस्योपयुज्यते ॥१२७॥ एवं तत्र जन: सर्वः, पुरमन्त:पुरं धनम् । जीवितं जन्म गोत्रं च, सर्वं व्यर्थममन्यत ।।१२८॥ अथ पञ्चदिनोने च, सम्पूर्णे मासषष्ठके। अदीनो विहरनेवं, महावीरो महामुनिः ॥१२९॥ नि:सङ्गो निरहङ्कारो, निर्विकारो निराश्रयः । नीरागो निरलङ्कारो, निराहारो निरामय: ॥१३०॥ निर्मोहो निर्ममीकारो, निराकासो निराश्रवः । जगद्वीरो जगन्नाथो, जगदानन्दकारक:॥१३१॥ जगद्वन्द्यो जगज्ज्येष्ठो, जगज्जन्तुदयापरः । श्रीमद्धनावहश्रेष्ठि-मन्दिरेऽसौ प्रविष्टवान् ॥१३२॥ अथ सा चन्दना पूर्व-व्यावर्णितदशान्तरा। समालोक्य महावीरं, प्रविशन्तं व्यचिन्तयत् ॥१३३॥ धन्याऽहं कृतपुण्याऽहं, कृतार्था कृतलक्षणा । यथा ममाष्टमस्यान्ते, आजगाम महामुनिः ॥१३४॥ यद्येष कुरुते मां, मारेभिरनुग्रहम् । तदा ददामि नि:शेष-दुःखानां हि जलाञ्जलिम् ॥१३५॥ यावद्विचिन्तयत्येवं, तावत्तत्र समागत: । वीर: समीरिताशेष-दुर्जयान्तरशात्रव: ॥१३६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org