________________
अधिकार १० / श्लोक २४० / चन्दनबाला कथा
२५५
भोजनं ते ददामीति, वीक्षितं तत्र सर्वत: । न किञ्चित्तादृशं दृष्टं, मूलयाऽपहृतं यत: ॥८१॥ विशेषतो वीक्ष्यमाणेन, तत्र स्थाने समन्तत: । दृष्टा पर्युषिता माषा:, सूर्पकोणव्यवस्थिता: ॥८॥
आनीय श्रेष्ठिना शीघ्रं, ततस्तस्यै समर्पिता: । एतेऽपि भुज्यतां ताव-त्क्रियतां प्राणधारणम् ॥८३।। इत्युक्त्वा तत्पदप्रोत-निगडोद्दलनहेतवे । वेगेन गतवान् श्रेष्ठी, लोहकारस्य मन्दिरम् ।।८४॥ अथ चन्दनबालापि, दृष्ट्वाऽवस्था तथा निजाम् । युवावस्थां च संस्मृत्य, चिन्तयामास मानसे ॥८५।। यदि मे निर्मितं जन्म, विशाले राजमन्दिरे । मुदिते सर्वर्द्धिसम्पन्ने, सम्पूज्ये महतामपि ॥८६|| धात स्तत: प्रमथ्यैवं, किं कृतेयं विडम्बना ? । महापराभवंस्थानं, दासैरपि सुदुःसहा ॥८७॥ यदिदमीप्सितं कर्तुं, त्वया मामभि हे विधे!। तद्गर्भस्थाऽपि किं नाहं, प्राणेभ्यो व्यपरोपिता? ॥८८|| किं न च्युताऽस्मि गर्भाद्वा, मृता वा किं न शैशवे। किं वा कृतं मया पूर्व, दुष्कृतं व्यसनावहम् ॥८९॥ येनेदृशं सतां शोच्यं, जनकारुण्यकारणम् । निरागसोऽपि सञ्जातं, व्यसनं मम सम्प्रति ।।९०॥ इत्यादि सा निजं जन्म, निन्दित्वा बहुधा तत: । क्षुत्क्षाम कपोलं च, निधाय करपल्लवे ॥११॥ तेषु सूर्पककोणस्थ-कुल्माषेषु निजां दृशम् । पातयित्वा विशेषेण, शोचयामास चन्दना ॥९२॥ षष्ठस्य पारणे मेऽद्य, कुल्माषा: समुपस्थिता: । बुभुक्षाबाधिता बाढं, तदेतानपि पारये ॥९३।। यत:-सर्वेषामपि जन्तूनां, बाधितानां बुभुक्षया । सरसं विरसं वापि, भोजनं प्रतिभासते ॥९४|| परं यदा स्वगेहस्था, तपस्तेपेऽतिलघ्वपि । तदाऽहं सर्वसङ्घाय, दत्ते चाश्नामि नान्यथा ।।९५॥ ततोऽद्य यदि कोऽपीह, समेति सगुणोऽतिथि: । तस्मै माषानिमान् दत्त्वा, पारयामि सुनिर्वृता ।।९६।। एवं चिरं विचिन्त्यैषा, दानैकरसमानसा । ऊर्वीकृत्य शिर: किञ्चि-देहद्वारं प्रलोकते ॥९७|| इतश्चतस्यामेव हि कौशाम्ब्यां, महावीरो जिनेश्वर: । निर्जिताखिलदुर्वार-परीषहमहारिपुः ॥९८।। विशेषत: किल जग्राह, चतुर्विधमभिग्रहम् । द्रव्यत: क्षेत्रतश्चैव, कालतो भावतस्तथा ।।९९॥ द्रव्यत: सूर्पकोणस्था, माषा: पर्युषिता मम । कल्पन्ते नान्यथेत्येवं, प्रतिज्ञां कृतवानसौ ॥१००। क्षेत्रतो यदि सा दात्री, गेहोदुम्बरसंस्थिता । एकं पादं बहिः कृत्वा, मध्ये चैकं प्रयच्छति ॥१०१॥ कालतस्तु समायाते, दिवायामे तृतीयके । भिक्षुकेषु निवृत्तेषु, सर्वेष्वपि समन्ततः ॥१०२॥ भावतस्तु महाराज-विशालकुलसम्भवा । महादुर्गदशावस्था, व्यपनीतशिरोरुहा ॥१०॥ बलवन्निगडश्रेणि-नियन्त्रितपदद्वया । रुदन्ती शोचयन्ती च, निन्दन्ती च स्वदुष्कृतम् ॥१०४॥ यद्येवं व्यसनं प्राप्ता, राजपुत्री प्रदास्यति । तदा ग्राह्या मया भिक्षा, नान्यथेति कथञ्चन ॥१०५॥ इत्थं कृतप्रतिज्ञोऽसौ, वर्धमानो जिनेश्वरः । बम्भ्रमीति निराशंस-स्तस्यां पुरि दिने दिने ॥१०६॥ भिक्षां कदापि नो लेभे, निगूढाभिग्रहो यतः । अन्यदा हिण्डमानस्तु, प्रविष्टो मन्त्रिणो गृहे ॥१०७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org