________________
२५४
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
अन्यदा बहिरायातो-ऽपराहणेऽसौ धनावहः । गेहे च न तदा कोऽपि, विद्यते दैवयोगतः ॥५३॥ एका चन्दनबालैव, क्रीडन्ती तत्र तिष्ठति । पितरं बहिरायातं, दृष्ट्वा तत: समुत्थिता ॥५४॥ 'दाकवारकमादाय, ददावभ्युक्षकं पितुः । आसनं च यथासन्नं, निषण्णस्तत्र सोऽपि च ॥५५॥ ततस्तस्याः पितुः पादौ, क्षालयन्त्या: कथञ्चन । केशपाशस्तदायासात्, सञ्जातस्त्यक्तबन्धन: ॥५६।। प्रलम्बत्वान्महीपीठे, श्रेष्ठिना प्रलुठन्नसौ । लीलायष्ट्या समुद्धृत्य, तत्पृष्टे विनिवेशित: ॥५७॥ मूलयाऽलोकि नि:शेष-मेतच्छ्रेष्ठिविचेष्टितम् । तिष्ठन्त्या निजगेहस्य, रम्ये जालगवाक्षके ।।५८|| चिन्तितं च निजे चित्ते, यथेदं नैव सुन्दरम् । दुहितेयममुष्याद्य, कल्ये भार्या भविष्यति ॥५९॥ अहं हि जरसाऽऽक्रान्ता, हीयमाना दिने दिने । इयं तु नितरां रम्ये, समारोहति यौवने ॥६०॥ तदयं नास्ति मे श्रेष्ठी, न जनो न च मन्दिरम् । इयमेतस्य गेहस्य, स्वामिनीति वितर्कये ॥६॥ तद्यावन्नैव नि:शेष-कार्यनाश: प्रजायते । तावन्निपातयाम्येना-मुपायेनैव केनचित् ॥६२॥ चिकित्सितुं सतां युक्तो, व्याधि: कोमल एव हि । प्रवृद्धस्य तु तस्येह, चिकित्सा हि सुदुष्करा ॥६३॥ चिन्तयन्त्या इदं चित्ते, मूलाया असमञ्जसम् । प्रयोजनवशाच्छ्रेष्ठी, बहिर्भूयोऽपि निर्ययौ ॥६४॥ ततोऽवतीर्य साक्षेपं, शिरोगेहाद् द्रुतं द्रुतम् । वहन्त्या मत्सरं घोरं, मूलयाऽनर्थमूलया ॥६५||
आकार्य नापितं तत्र, मुण्डयित्वा च तच्छिर: । क्षिप्ता च पादयोर्गाहें, बलवन्निगडावलिः ॥६६।। नीत्वाऽपवरकेऽत्यन्त-मन्धकारे भयानके । समुत्सार्मऽन्नपानादि, क्षिप्ता चन्दनबालिका ॥६७|| दत्तं च तालकं तत्र, जन: सर्वोऽपि वारितः । यथा भो! श्रेष्ठिनो नेदं, समाख्येयं कदाचन ॥६८॥ य: पुन: कोऽपि तस्येदं, कथयिष्यति मन्दधी: । अयमेव हि तस्यापि, दण्ड: कार्यो मया ध्रुवम्॥६९।। एवं विधाय सा मूला, मूलं पातकसन्तते: । जाताऽस्वच्छस्वभावेन, निजव्यापारतत्परा ।।७०॥ अथागते द्वितीयेऽह्नि, भोजनावसरे तथा । सम्पृष्टः श्रेष्ठिना तत्र, सर्व: परिजनो निजः ॥७१॥ यथा भो दृश्यते नात्र, किमु चन्दनबालिका ? | कथ्यतां कथ्यतां मह्यं, क्रियते येन भोजनम् ।७२। न तस्य पृच्छत: कोऽपि, कथयामास मानवः । अनर्थमूलमूलाया, भयसन्त्रस्तमानस: ॥७३॥ चिन्तितवांस्ततश्चित्ते, यथा सा रमते क्वचित् । स्नानादि कुरुते किञ्चि-त्सुप्ता वा क्वापि तिष्ठति ॥७४|| एवमेव तृतीयेऽपि, विगते खलु वासरे। चतुर्थे च समायाते, श्रेष्ठिनाऽकारि निश्चयः ॥७५॥ अद्य चन्दनबालायां, दृष्टायामेव भुज्यते । नान्यथा कथ्यतां तथ्यं, तददर्शनकारणम् ॥७६॥ श्रुत्वेदं चिन्तयामास, वृद्धा नारी दयापरा । इयं हि सुचिरं बाला, जीवत्वेव ममासुभि: ।।७७॥ अहं तु जरसाऽऽघ्राता, किं करिष्यामि जीविता । इत्यालोच्य तया सर्वं, सत्यमेव निवेदितम् ।७८। तत: शीघ्रं समागत्य, श्रेष्ठिना तत्र कुञ्चिकाम् । गृहीत्वोद्घाटितं द्वारं, तदन्त: प्रविवेश च ॥७९।। दृष्टा च सा तथावस्था, पृष्टा च स्निग्धया गिरा। यथा ते बाधते किं नु, बुभुक्षेति बभाण सा॥८०॥ १BJPC | जलपात्रं समानीय, चरणक्षालनाय सा । आसनं च तथाऽयच्छ-नि” मु. ॥ २ नं BJPC ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org