________________
अधिकार १० / श्लोक २४० / चन्दनवाला कथा
२५३
वियोजिता स्वबन्धुभ्यो, भ्रंसिता राज्यसम्पदः ।
एतावता न तुष्टोऽसि, शीलं मे भतुमिच्छसि ! ॥२६।। एवं विचिन्तयन्त्याश्च, रुदन्त्याश्च मुहर्मुहुः । लपन्त्या दीनवाक्यानि, शोचयन्त्या अनारतम् ॥२७॥ निन्दन्त्या निजकर्माणि, पूर्वजन्मकृतान्यलम् । दिशो दिशि क्षिपन्त्याश्च, भीत्या तरललोचने ॥२८॥ शीलभङ्गभयोद्भूत-दुःखसन्तप्तचेतसः । पश्यन्त्या एव धारिण्या:, पुरतस्तेन पापिना ॥२९॥ वसुमतियोद्धान्त्या, सुकुमारशरीरका । मार्गे गन्तुमशक्तासौ, ताडिता कम्बया दृढम् ॥३०॥ दृष्ट्वेदं धारिणी देवी, गाढं दुनितमानसा । घ्नन्तं वसुमतिं भूय-स्तं पुमांसमभाषत ॥३१॥ हे भ्रातर्हे महाभाग !, हे बन्धो ! बन्धुवत्सल ! । मत्पुत्रिकामिमामेवं, मा मा हंसीर्दयापरः ॥३२॥ इत्यादिचाटुवाक्यानि, लपन्त्या एव सोऽधम: । भूयोऽपि ताडयामास, तां बालां विगतत्रपः ॥३३॥ नराधमस्य तस्येवं, दृष्ट्वा तदुष्टचेष्टितम् । सञ्जातचित्तसङ्घट्टा, प्राणांस्तत्याज धारिणी ॥३४॥ अथासौ पुरुषो दृष्ट्वा, देवीमृत्युमतर्कितम् । निन्ये वसुमतिं मार्गे, संस्थापयन् प्रियोदितैः ॥३५॥ क्रमेण प्राप कौशाम्ब्यां, गतवांश्च निजे गृहे । भोजनादिक्रियां कृत्वा, ततो विक्रयहेतवे ॥३६।। हसन्ती निजरूपेण, रूपश्रियं रतेरपि । लावण्याम्बुप्रवाहेण, प्लावयन्ती महीतलम् ॥३७।। पूरयन्ती दिशां चक्रं, देहोत्थरुचिमण्डलैः । स्वसौन्दर्यश्रिया सर्वाः, क्षिपन्ती सुरसुन्दरी: ॥३८॥ सम्पूर्णपूर्णिमाचन्द्रं, निरस्यन्ती मुखश्रिया। दन्तद्युत्या सुगत्या च, हसन्ती हंसमण्डलम् ॥३९॥ चकितचञ्चलप्रांशु-प्रेडच्चारुविलोकनैः । सर्वा: पराभवन्ती च, भयद्रुतमृगाङ्गना: ॥४०॥ आनीय तेन सा बाला, दातृवाहनपुत्रिका । तृणानि मस्तके दत्त्वा, हट्टमार्गेऽवतारिता ॥४१॥ ततस्तत्र तथावस्थां, तामालोक्य जनो बहुः । मिलित: कौतुकाक्षिप्तो, ययाचेऽथ यथेच्छया ॥४२॥ अथ धनावहाख्येन, श्रेष्ठिना श्रेष्ठचेतसा । तत्राऽऽयातेन सा दृष्टा, दृष्टेरानन्ददायिका ॥४३।। चिन्तितं च यथैतस्या, दृश्यते सुन्दराकृतिः । तथा महत्कुले कस्मि-नुत्पत्तिरनुमीयते ॥४४॥ तस्मादेनां यथालाभं, सङ्गृह्णामि प्रयत्नतः । सर्वलक्षणसम्पूर्णां, सर्वावयवसुन्दराम् ॥४५॥ एतत्सङ्ग्रहणे नूनं, प्रवरं प्रीतिकारणम् । अस्याः पित्रादिभि: साधु, सम्बन्धो मे भविष्यति ॥४६॥ विचिन्त्येदं यथालाभं, श्रेष्ठिना जगृहे च सा। नीत्वा वेश्मनि मूलाया:, श्रेष्ठिन्याश्च समर्पिता॥४७॥ उक्ता च श्रेष्ठिना मूला, यथेयं बालिका प्रिये ! । पुत्रिकेव मया तुभ्यं, प्रदत्ता पाल्यतामिति ॥४८॥ तयाप्येवं करोमीति, प्रतिपन्नं सहर्षया । ततो वसुमतिस्तत्र, ववृधे स्वगृहे यथा ॥४९।। कोमलालापसौजन्य-विनयादिगुणश्रिया । शीतलं कुर्वती लोकं, चन्द्रिकेव महीतलम् ॥५०॥ यथार्थंगुणनिष्पन्नं, श्रूयमाणं सुखप्रदम् । प्राप चन्दनबालेति, विख्यातं नाम चापरम् ।।५१।। एवमीप्सितसम्पत्त्या, वर्धमाना दिने दिने । कलाभि: सह लावण्यं, सर्वाङ्गेषु पुपोष सा ॥५२॥ १°न्दरी- BPJCT
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org