________________
२५२
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
चन्दनबाला कथा
अस्त्यत्रैव जगत्ख्याते, जम्बूद्वीपे शुभालये । प्रसिद्धे भारते क्षेत्रे, गङ्गासिन्धुविभक्तके ॥ अङ्गाजनपदे रम्ये, सरः शैलादिसङ्कुले । अलकेव धनिस्थानं, चम्पानाममहापुरी ॥२॥ तत्राभवद्धराधीशो, दातृ ( दधि) वाहननामकः । सूर इव प्रतापेन, य आक्रामन्महीतलम् ॥३॥ बभूव तस्य रूपादि-गुणरत्नौघधारिणी । धारिणीनाम सद्देवी, चेटकराजपुत्रिका ॥४॥ अन्यदा सा तमिस्रायां, सुप्ता चरमयामके । कल्पवृक्षलतां स्वप्ने, समुल्लासिसुपल्लवाम् ||५|| पुष्पफलर्द्धिसंयुक्तां भूरिलोकोपकारिणीम् । निजश्रीनिर्जिताशेष- शाखिसन्दोहसम्पदम् ॥६॥ समालोक्य प्रबुद्धा च, निजभर्त्रे न्यवेदयत् । तेनावाचि यथा भद्रे !, कल्पवृक्षलतेव ते ॥७॥ सर्वस्याश्रितलोकस्य, सम्पूरितमनोरथा । नारीजनगुणग्राम - रत्नराजिविराजिता ॥८॥ सर्वसौन्दर्यसम्पूर्णा, पूर्णसौभाग्यशालिनी । 'शालिसुकोमलालापा, भविष्यति सुपुत्रिका ॥९॥ श्रुत्वा भर्तुरिदं वाक्यं, परमानन्दनिर्भरा । तमुद्वाह सा गर्भं, कालेऽसूत च दारिकाम् ॥१०॥ कुलाचारविधानेन, निवृत्ते सूतिकर्मणि । महद्धर्या विहितं नाम, वसुमतिरिति स्फुटम् ॥११॥ इतश्च-वत्साजनपदस्योच्चैः, सारालङ्कारसन्निभा ।
स्वश्रीजितसुरावासा, कौशाम्बी नाम सत्पुरी ॥१२॥
तत्र त्रासितपरानीकः, शतानीको नृपोऽभवत् । शौर्यवीर्यसदौदार्य - गाम्भीर्यादिगुणोदधिः ॥१३॥ अभून्मृगावती नाम, प्रीतिकृत्तस्य सत्प्रिया । दुहिता चेटकस्यैव, रक्ता सर्वज्ञशासने || १४ || द्वयोरपि तयोर्वैरं, बभूवाऽऽबद्धरोषयोः । दातृवाहनभूपाल - शतानीकाह्वयोर्मिथः || १५ || अन्यदा च शतानीको, गतश्चम्पापुरीं प्रति । अवस्कन्देन बाधायै, दातृवाहनभूभुजः ||१६|| ततो बाढं बलिष्ठोऽपि शतानीकेन भूभुजा । अलक्षमागतत्वेन, नाशितो दातृवाहनः ॥१७॥ चम्पायां लुट्यमानायां, सर्वतो लुण्टकैर्जनै: । यो यद् गृह्णाति यद् ग्राहे, तत्तस्यैवेति घोषिते ॥ १८ ॥ स्वगेहं प्रति धावन्ती, धारिणी सुतया सह । एकेनौष्ट्रिकपुंसाऽसौ गृहीता दैवयोगतः ॥ १९ ॥ लात्वा चम्पां शतानीके, निवृत्ते सह सेनया । पप्रच्छे औष्ट्रिको मार्गे, केनाप्येवं कुतूहलात् ॥२०॥ यथा भो भोः किमेताभ्या - मबलाभ्यां करिष्यसि ? । स प्राह बृहती येयं, सा मे भार्या भविष्यति । २१ । इमां तु बालिकां नीत्वा विक्रेष्यामि स्वके पुरे । ततो मे मनसोऽभीष्टं भूरिद्रव्यं भविष्यति ॥२२॥ श्रुत्वेदं धारिणी देवी, तद्वचः श्रुतिदुःखदम् । शोकविह्वलसर्वाङ्गा, रुदन्तीदमचिन्तयत् ॥२३॥ हा हा हतक विधातः !, किं तव युक्तमीदृशम् । विधातुं कर्म निस्त्रिंश-मस्मिन् जने निरागसि ।। हा हा! हे धात: !, किं त्वया कृतमीदृशम् । यदेषोऽपि पदास्पृश्यः, कलत्रं मां चिकीर्षति ॥ २५ ॥ १ सालीनको BPC
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org