________________
अधिकार १० / श्लोक २४० / श्रेयांसकुमारकथा
२५१
तातेनापि यदालोकि, स्वप्ने 'महाप्रमाणत: । युद्ध्यमानो नरः सार्धं, शक्रसैन्येन भूयसा ।।१३।। तस्यार्थो युद्ध्यमानस्य, सार्धं कर्मभिरष्टभिः । जिनस्यादायि साहाय्यं, ददतेक्षुरसं मया ॥१४॥ श्रेष्ठिनापि यदालोकि, रवे: रश्मिसहस्रकम् । भ्रश्यत्तन्निजकस्थाने, मयोद्धृत्य निवेशितम् ॥१५॥ तस्यार्थ: केवलज्ञानं, भ्रस्यद्भक्तादिना विना । समुद्धृतं मयैवैतत्, पारयता परमेश्वरम् ॥१६॥ श्रुत्वेदं स्तोतुमारब्धः, कुमारं विस्मितो जनः । ज्ञानदाक्षिण्यदानादि-सद्गुणाकृष्टमानस: ॥९७॥ अहो ते कुमर! ज्ञान-महो ते सुविवेकिता। अहो ते वाक्यचातुर्य-महो दानमहो यश: ॥९८॥ यथा तीर्थकृतां मध्ये, वृषभो भुवनप्रभुः । कुमार त्वं तथैवाद्यो, दातृणामिह गीयसे ॥१९॥ त्रैलोक्यरङ्गमध्ये च, वरदानपताकिका । सुरासुरनराध्यक्ष-महारि कुमर ! त्वया ॥१००॥ त्वया कुन्देन्दुसंकाश-यशसा पूरितं जगत् । रसेन श्रीजिनाधीश-आत्मा न्यवेशि निवृतौ ॥१०१॥ इत्थं कुमारसम्बन्धि-सद्गुणग्रामसम्पदम् । स्तुवन्नेवं गतो लोकः, सर्वो निजनिजेगृहे ॥१०२॥ भगवानपि निसङ्ग-स्ततो निर्गत्य धीरधीः । विजहार पुरग्राम-ग्रामाकुलमहीतलम् ॥१०३॥
श्रेयांसकथानकं परिसमाप्तमिति ॥
१ मु. J महाप्रमाण: BPCL
२BPCLधीश-स्यात्मा न्य मु.। धीश: आत्मन्य J॥ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org