________________
२५०
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
सद्गन्धोदकवृष्टिश्च, मुक्ता पांशुप्रशान्तिकृत् । दशार्धवर्णसद्गन्ध-पुष्पवृष्टिस्तथैव च ॥६६॥ धन्योऽयं पुण्यवानेष, कृतार्थोऽयं विवेकवान् । जन्म सुलब्धमेतस्य, श्लाघामित्याप लोकत:।।६७॥ अहो दानमहो दान-मेवं दत्तं फलावहम् । अहो धन्य: सुपुण्योऽय-मित्येवं मुखराननः ॥६८॥ आगत्य मिलितो भूयान्, विस्मयोत्फुल्ललोचन: । जनो नगरवास्तव्य:, श्रेयांसस्य गृहाङ्गणे ॥६९॥ तथा कच्छमहाकच्छ-प्रमुखास्ते च तापसा: । जिनपारणकं श्रुत्वा, श्रेयांसगृहमागता: ॥७०।। सोमप्रभमहीपाद्या, अन्ये च बहवो नृपा: । श्रुत्वाऽऽगता गृहे तत्र, सानन्दाश्च सकौतुका: ॥७१॥ पृष्टवन्तश्च तत्सर्वं, कुमारमतिविस्मिताः । यथैवं दीयते भिक्षा, कथं ज्ञातमिदं त्वया ? ॥७२।। सोऽप्याह श्रूयतां भो भो!, मद्वच: सावधानकैः । यथैवंविधपात्रेभ्यो, भक्त्या भिक्षैव दीयते ॥७३॥ न हिरण्यसुवर्णानि, नो वस्त्राभरणानि च । न चाश्वगजकन्यादि, कदाचिदपि दीयते ॥७४॥ दत्तया भिक्षयैवात्र, जायते पुण्यमुत्तमम् । सुसाधुभ्य: प्रदत्तेन, स्वर्णादिना न किञ्चन ॥७५॥ तथोक्तं यच्च युष्माभि-ख़तमेतत्त्वया कथम् ? । तदपि श्रूयतां सर्वं, कथ्यमानं मयाऽधुना ॥७६॥ मयाऽऽलोक्य जगन्नाथं, जिनं भिक्षार्थमुद्यतम् । जातिस्मरणमुत्पन्नं, ज्ञातं पूर्वभवाष्टकम् ।।७७||
तद्यथा-अहं स्वयंप्रभा देवी, भगवान् ललिताङ्गकः ।
ईशानसंज्ञके कल्पे, देवोऽभवन्महर्द्धिकः ॥७८॥ च्युत्वा महाविदेहे नौ, श्रीमतीवैरजङ्घकौ । आस्व सर्वर्द्धिसम्पन्नौ, तत्परं मिथुनौ तत: ।७९/ देवौ सौधर्मकल्पे तु, केशवो वैद्यपुत्रकः । जिनो जज्ञेऽभयसेनो-ऽहं जात: श्रेष्ठिनन्दनः ।।८।। ततश्चाच्युतकल्पे नौ, देवौ जातौ महर्द्धिकौ । तत: पुण्डरिकिण्यांच, सारथिचक्रवर्तिनौ ॥८१॥ चक्रिणा वैरनाभेन, तदा प्रव्रजता सता। प्रव्रजित: सहैवाहं, वैरसेनजिनान्तिके ।।८२॥ श्रुतं च मयका तत्र, यथासौ वैरनाभक: । प्रथमो भारते क्षेत्रे, तीर्थनाथो भविष्यति ।।८।। तत: कृत्वा चिरं कालं, तप: संयममुत्तमम् । मृत्वा देवौ विमाने नौ, जातौ सर्वार्थनामनि ॥८४|| तदेष भगवांस्तत्र, ततश्च्युत्वा जिनोऽजनि । अहं श्रेयांसनामात्र, भवतामपि विश्रुतः ॥८५।। इत्यादि सर्ववृत्तान्तं, स्वभवाष्टकगोचरम् । कुमारः कथयामास, यथा दृष्टं यथा श्रुतम् ॥८६॥ आकर्येदं जन: सर्वो, विस्मयाकुलमानस: । कुमारं श्लाघयामास, हृष्टचित्तो मुहुर्मुहुः ।।८७।। धन्योऽयं पुण्यवानेष, कृतार्थोऽयं किमुच्यते । अस्यैव श्लाघ्यतमं मन्ये, गोत्रं जन्म च जीवितम्।८८। यतो येनाज्ञलोकस्य, मध्ये भिक्षां प्रयच्छता । श्रीमदादिजिनेन्द्रस्य, पण्डितायितमुच्चकैः ॥८९॥ अथाह पुनरप्येवं, कुमारस्तं जनं प्रति । पूर्वोपलब्धस्वप्नानां, श्रूयतामधुना फलम् ॥१०॥ यन्मयामृतकुम्भेन, स्वप्ने सिक्त: सुराचल: । विच्छाय: संस्ततोऽत्यर्थं, दधौ शोभां समन्तत: ॥९१।। तस्यार्थोऽयं विनाहारं, विच्छाय: सन् जिनेश्वरः । मयेक्षुरसकुम्भेना-भिषिक्तः शुशुभेऽधिकम् ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org