________________
अधिकार १० / श्लोक २४० / श्रेयांसकुमारकथा
२४९
तथा कच्छमहाकच्छ-प्रमुखप्रौढभूभुजाम्। सार्धं चतु:सहस्रया च, विनीतायाः पुरस्तत:।३८। निर्गत्य निर्जिताशेष-दुर्वारान्तरशात्रव: । कच्छादिभि: परित्यक्तो, मौनस्थत्वादिति क्रमात् ॥३९॥ दिने दिने परिभ्राम्यन्, भिक्षाहेतोहे गृहे । भिक्षां कदापि नो लेभे, वस्त्राद्यैश्च न्यमन्त्र्यत ॥४०॥ यतो भिक्षुकलोकस्या-भावादेव न जायते । तदा भिक्षाप्रचारोऽपि, तेन भिक्षा न लभ्यते ॥४॥ एवं च श्रीजिनाधीशो, नाभेयो भुवनप्रभुः । नीरागो निरहङ्कारो, नि:सङ्गो निष्परिग्रहः ॥४२॥ विजहार विनाऽऽहारं, मौनवृत्त्या निरुत्सुक: । पूर्णसंवत्सरं याव-त्पुरग्रामाकुलां महीम् ॥४३॥ एवं विहरमाणोऽसौ, हस्तिनागपुरं गतः । भिक्षार्थं च पुरे तत्र, प्रविवेश महाप्रभुः ।।४४॥ विनाहारेण विच्छायो, दवदग्ध इवाचल: । शशीव घनसञ्छन्न:, सन्मणिवदसंस्कृतः ॥४५॥ अतीव जीर्णविच्छायो, महास्तूप इवोच्चलन् । विवर्णाकृतसंस्कारः, सत्प्रासाद इवाथवा ॥४६॥ क्षेत्रं सद्गुणशस्यानां, सन्मित्रं सर्वदेहिनाम् । धर्मसत्रं तु भव्यानां, पात्रं वितततप: श्रियाम् ॥४७॥ पञ्चधाचारसम्पन्न:, पञ्चाश्रवविवर्जक: । महाव्रतानि पञ्चापि, दुर्धराणि दधद् भृशम् ॥४८॥ पुण्यराशिरिवाध्यक्ष-श्चिन्तामणिरिवातुल: । श्रीमदादिजिनाधीश:, प्राविशन्निजमन्दिरे ॥४९॥ दृष्टः स्वस्थोपविष्टेन, निजगेहगवाक्षके । श्रीश्रेयांसकुमारेण, दिगालोकं प्रकुर्वता ॥५०॥ दृष्ट्वा भगवन्नेपथ्यं, कुमारोऽथ व्यचिन्तयत् । दृष्टपूर्वमिदं मन्ये, कथं कुत्र कदेति वा ? ॥५१॥ तस्येत्थं कुर्वतस्त्वीहा-पोहमार्गगवेषणम् । श्रेयांसस्य समुत्पन्नं जातिस्मरणमुत्तमम् ॥५२॥ तेनाऽऽलोकि जिनेन्द्रस्य, स्वस्यापि च भवाष्टकम् । अतीतकालसम्बन्धि, ततश्चैवमचिन्तयत् ॥५३॥ प्रतिपितामहस्याढ्य-रूपमालोकि यादृशम् । तादृशमेव मया दृष्ट-मितस्तृतीयके भवे ॥५४॥ पुर्यां पुण्डरिकिण्यांच, जिनलिङ्गमुपेयुष: । बहुधा वैरसेनस्य, श्रीमत्तीर्थकृतस्तदा ॥५५॥ तदेष भगवानत्र, भिक्षाहेतोहे मम । समेत्यज्ञजने नित्य-मलब्धाहारदुर्बल: ॥५६॥ स यावच्चिन्तयत्येवं, तावदेको नर: किल। आगत: कुम्भमादाय, वरेक्षुरससम्भृतम् ॥५७॥ अत्रान्तरे कुमाराय, रत्नशोभिगृहाङ्गणे । श्रीमदादिजिनाधीश:, कल्पवृक्षमिवागतः ।।५८॥ श्रेयांसोऽपि समायात-स्तत्रानन्दितमानस: । तमिक्षुरससम्पूर्ण-कुम्भमादाय सत्वरम् ॥५९॥ 'न्यमन्त्रयच्च सानन्दं, रसकुम्भेन तेन स: । भगवन्! कल्पते तेऽयं, ततो भगवतापि हि॥६०॥ सर्वलक्षणसम्पूर्णो, निजपाणि: प्रसारित: । तेनाऽक्षेपि रसस्तत्र, न पपात महीतले ॥६॥ यतो यत्क्षिप्यते वस्तु, तीर्थनाथकराञ्जलौ । अर्केन्द्वोस्तच्छिखा याति, न पतत्येव भूतले ॥२॥ ततोऽसौ तीर्थनाथेन, पारितो मधुरो रस: । अरक्तद्विष्टचित्तेन, सर्वत्रैलोक्यबन्धुना ॥६३॥ अत्रान्तरे कुमारस्य, प्रासादप्राङ्गणेऽपतन् । अर्धत्रयोदशस्वर्ण-कोटयो देवेरितादिति ॥६४॥ उल्ललास महानाद:, सुरदुन्दुभिसम्भव: । चेलोत्क्षेपश्च सानन्दै-स्तत्राकारि नरामरैः ॥६५॥ १ निमन्त्र BPJCT
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org