________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
"
यो दुष्टनिग्रहव्यग्र; शिष्टानुग्रहणाग्रही । समग्रसुभगग्राम-ग्रामणीरग्रिमः सताम् ॥१०॥ आसीत्तस्य नरेन्द्रस्य, जनतानन्दकारकः । श्रेयसां सततस्थानं, श्रेयांस इति विश्रुतः ||११|| चन्द्रमेव कलाधारः, संवृत्तो यशसोज्ज्वलः । परं दोषाकरो नैव, न कलङ्ककलङ्कितः ॥१२॥ तथा तत्रैव वास्तव्यो, पुरश्रेष्ठी महर्द्धिकः । बुद्धया निर्जितवागीशो ऽभवत् सुबुद्धिनामकः ॥ १३ ॥ एवं सोमप्रभो राजा, बुभुजे प्रीतमानसः । सार्धं स्वपुत्रमित्राद्यैः, प्राज्यसाम्राज्यसम्पदम् ||१४|| अथैकदा सुधाशुभ्रे, प्रासादे सुमनोहरे । रत्नराजिनि पर्यङ्के, कुमरः सुप्तजागरः ॥१५॥ श्रेयांसाख्यः सतां मुख्यः, सुकृती सुन्दराकृतिः । रात्रौ सूचितकल्याण-मपश्यत्स्वप्नमुत्तमम् ॥१६॥ यथा किलातिविच्छायो, ध्यामित इव वह्निना । दवदग्ध इव स्थाणु - र्निः श्रीकः कनकाचलः ॥१७॥ मयकामृतकुम्भेन, सिक्तः स तु विशेषतः । सर्वतः शोभमानोऽसौ दधौ चारुतरश्रियम् ॥१८॥ तथा सुबुद्धिना स्वप्ने, नगरश्रेष्ठिना किल । दृष्टं स्वस्थानतो भ्रष्टं तिग्मांशो रश्मिमण्डलम् ॥१९॥ समुद्धृत्य कुमारेण, स्वस्थाने तन्निवेशितम् । ततो भास्वद्रुचां चक्रं दधानं शुशुभेऽधिकम् ॥२०॥ सोमप्रभाभिधानेन, राज्ञापि ददृशे तथा । शत्रुसैन्यसमारब्धः, स्वप्ने कोऽपि महान्नरः ||२१|| कुमारस्तस्य साहाय्यं ददौ तेनापि विद्विषः । हतविप्रहतान् कृत्वा, नाशितास्ते दिशोदिशि ॥ २२॥ ततः प्रातः समुत्थाय, स्वप्नदर्शनविस्मितौ । श्रेयांसश्च सुबुद्धिश्च जग्मतू राजमन्दिरे ||२३|| कृत्वा राज्ञः प्रणामादि, उपविष्टौ तदन्तिके । ' तदा चोक्तं कुमारेण, विस्मयोत्फुल्लचक्षुषा ||२४|| यथा तात ! मया रात्रौ दृष्टः स्वप्ने महाचलः । सर्वतोऽपि गतश्रीको, विच्छायश्च विरूपकः ॥ २५ ॥ मयाभिषेचि सौवर्ण-कुम्भैरमृतपूरितैः । ततोऽतीव रराजासौ, विस्फुरद्भूमिमण्डलः ||२६| एवं स्वप्नो निजो राज्ञा, श्रेष्ठिना च निवेदितः । ततश्च स्वस्वबुद्धया ते, विचारयितुमुद्यताः ॥२७॥ परं सम्यग्न जानन्ति, स्वप्नानां कीदृशं फलम् । ततो बभाण राजेन्द्रो, भो भो आकर्ण्यतामिति । २८। स्वप्नानामहमेतेषां, जाने सामान्यतः फलम् । कुमारस्यैव कल्याणं, किमप्येतदुपस्थितम् ||२९|| एवं स्वप्नविचारं ते, कृत्वा विस्मितमानसाः । तत उत्थाय सर्वेऽपि, ययुर्गेहे निजे निजे ॥३०॥ अथ युगादिभूपालो, युगादियतिपुत्रवः । युगादिभिक्षुकश्चैव, युगादिश्रीजिनेश्वरः ||३१|| विंशतिपूर्वलक्षाणि, सुराधीशनतक्रमः । योऽद्भुतरूपसंपन्न - स्तस्थौ कौमारवासके ॥ ३२॥ सुरेन्द्रकृतसाम्राज्याभिषेको नरपुङ्गवः । आकर : सर्वनीतीनां सर्वविद्यासमाश्रयः ॥ ३३ ॥ यश्च प्रदर्शयामास, प्रजानां हितवाञ्छया । कुम्भकारादिशिल्पानि, लोकव्यवहारांस्तथा ॥३४॥ त्रिषष्टिपूर्वलक्षाणि, दर्शयन् सकलाः कलाः । प्रजानां यः प्रजापाल:, प्राज्यं राज्यं प्रभुक्तवान् ॥३५॥ अथ विभज्य पुत्रेभ्यः, पृथ्वीग्रामादिसङ्कुलम् । दत्त्वा संवत्सरं यावन्महादानं किमिच्छया ॥३६॥ त्यक्त्वा प्राज्यं महाराज्यं, सम्पूर्णं सर्वसम्पदा । प्रतिपद्य च सद्दीक्षां, सर्वसत्त्वसुखावहाम् ||३७||
१ सोऽवाचि - BJPC II
२४८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org