________________
अधिकार १० / श्लोक २३५-२४० / दानप्रकाराः
२४७
शूराणां पण्डितानां च, वाग्मिनां काव्यकारिणाम् । सर्वेषामपि चैतेषां, दानदाताऽतिदुर्लभः ॥२३८॥
श्लोकद्वयं सुगमम् ।।२३७-२३८।। अथ दानफलं दर्शयन् दृष्टान्तानाह
-श्रेयांसश्चन्दना धन्या, कृतपुण्यकवाणिजः। - इत्येवमादयो दृष्टा, दृष्टान्ता दानगोचराः ॥२३९॥
सुगमोऽयं श्लोकः ॥२३९।।। अथ प्रकरणं निगमयन् प्रायो गृहिणो दानमेवैकं संसारोत्तारकारीति दर्शयन्नाह
अमुं भवाम्भोधिमगाधमुल्बणं, गृही कथङ्कारमपारमुत्तरेत् । निराश्रवे पोत इवाविनश्वरे, स दानधर्मे न कृतादरो यदि ॥२४०॥
अमुमिमं भवाम्भोधिं संसारार्णवमगाधमलब्धमध्यमुल्बणमुद्भटंगृही गृहस्थ: कथं केन प्रकारेणापारमविद्यमानपरतीरमुत्तरेत्परतीरं गच्छेन्निराश्रवे निश्छिद्रे पोत इव बोहित्थ इवाविनश्वरे विनाशरहिते दानधर्मे न कृतादरो यदि दाने विहितोद्यमो न स्यादित्येकविंशतिश्लोकसङ्केपार्थः ॥२४०॥
श्रेयांसचन्दनार्यकृतपुण्यकादिकथानकान्यमूनि
श्रेयांसकुमारकथा
बभूव भारते क्षेत्रे जम्बूद्वीपसमाश्रिते । कुरोर्जनपदस्यान्त:, पुरं गजपुराभिधम्॥१॥ कुन्देन्दुशङ्खशुधैश्च, यत्प्रासादैः समन्ततः । शरदम्भोदसङ्घातै-व्योमेव प्रविराजते ॥२॥ यत्र प्रधानरत्नौघ-खचितोच्चगृहावलि: । स्वर्णस्तम्भयुता भासा, हसतीवामरी पुरीम् ॥३॥ यत्रेन्द्रनीलवैडूर्य-पद्मरागमया रुच: । अकालेऽपीन्द्रचापस्य, श्रियं तन्वन्ति जालका: ॥४॥ रूपवन्त: सुभोगाढ्या, आदेया: सुभगास्तथा । यत्र धर्मफलं शुद्धं, सञ्चयन्ति स्फुटं नरा: ॥५॥ क्रीडावाप्य: शुभा यत्र, सदारामा गृहे गृहे । लीलाविलासयोग्यानि, शुभस्थानानि भोगिनाम् ॥६॥ तत्रेक्ष्वाकुकुलोत्पन्नो, राजा सोमप्रभोऽभवत् । बाहुबलिनरेन्द्रस्य, पुत्रो भूरिगुणालय: ॥७॥ नमन्ननेकभूपाल-मौलिमालार्चितक्रम: । समस्तभुवनव्यापि-कीर्तिसरिन्महोदधिः ॥८॥ य: केलिमन्दिरं नीतेः, पुण्यानामनघाश्रय: । समुद्रो गुणरत्नानां, कलानां विपुलालयः ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org