________________
२४६
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
एवंभूतायैवंप्रकाराय शान्ताय कषायोपशमात् गुप्ताय सम्यक्गुप्तियुक्तत्वात्, च: समुच्चये, तपस्विने द्वादशविधतपोनिरताय, दानमन्नपानादिवितरणं, यद्दीयत इति शेष:. तद् ग्राहकशुद्धं, ग्राहक़: साधुस्तमाश्रित्य' शुद्धं निष्कलङ्कं जगाद कथयामास जगतां भुवनानां गुरुर्धर्मप्रतिपादक: सर्वज्ञ इत्यर्थः, इति श्लोकद्वयार्थः ॥२३४||
अथ कालशुद्धमाह
यत्काले दीयते दानं, तस्या?ऽपि न विद्यते । अकाले तु वितीर्णस्य, ग्राहकोऽपि न सम्भवी ॥२३५॥
व्यक्तार्थ एवायं श्लोकः, कालशुद्धमाश्रित्यान्यैरप्युक्तं
यस्मिन्नेव हि काले, यतेः शरीरोपकारकं भवति ।
तस्मिन्नेव हि देयं, प्रतिदिवसं दानमनवयम् ॥१॥ तथा-कालदिन्नस्स पहे-णयस्स अप्पो न तीरए काउं ।
तस्सेवाथकपणा-मियस्स गिलंतया नत्थि ॥२॥
अथ भावशुद्धमाह
आत्मनः स्वधनादेश्च, साफल्यमिति चिन्तयन् । यो दत्ते शुद्धभावेन, भावशुद्धं तदीरितम् ॥२३६।।
आत्मन: स्वस्य धनादेश्च द्रव्यादेश्चादिशब्दाज्जन्मजीवितपुत्रकलत्रपरिवारादिपरिग्रहः, साफल्यं सफलतामित्यमुना प्रकारेण चिन्तयन् तर्कयन् य: कश्चिद्दत्ते प्रयच्छति शुद्धभावेन निर्मलान्त:करणेन भावशुद्धमाशयविशुद्धं तद्दानमीरितं कथितमिति उक्तं च
तदिदमुचितपात्रं पुण्यसंपत्तिसाध्यं, धनमपि रमणीयं तदयदेतस्य योग्यम् । अहह गृहनिवासः सार्थको मेऽदय जात, इति हृदयविशुद्धिर्यत्र-सद्भावशुद्धम्॥
अथ दातारं प्रशंसयन्नाह
आसन्नसिद्धिकः कोऽपि, दानधर्मे सदा रतः ।
शेषस्य सङ्कचत्येव, मनो दानभयाद् द्रुतम् ॥२३७॥ १न साधुसमाश्रित्य- BJC ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org