SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ अधिकार १० / श्लोक २३०-२३४ / दानप्रकाराः २४५ दातृग्राहकशुद्धं शुद्धं कालेन भावेन दातृशुद्धं ग्राहकशुद्ध कालशुद्धं भावशुद्धं चेत्यर्थः, उक्तं च दत्तेन येन यतिधर्मशरीरयात्रा, निस्तारमेति तदुपग्रहदानमुक्तम् । तच्चान्नपानसदनौषधवस्त्रपात्र-शय्यासनादि कथितं विधिवद्विचित्रम् ॥१॥ दायकशुद्धं तदपि, ग्राहकशुद्धं च कालशुद्धं च । भावविशुद्धं दानं, विमुक्तये स्याच्चतु:शुद्धम् ॥२॥२३०-२३१॥ अथ भेदचतुष्टयमेव विवृण्वन्नाह य: प्रयच्छति पुण्यार्थं, यतिभ्यः शुद्धभावतः । सर्वाशंसाद्विनिर्मुक्तं, दातृशुद्धं तदुच्यते ॥२३२॥ स्पष्ट एवायं श्लोक उक्तं च रोमाञ्चाश्चितविग्रहोऽमदमतियः शुद्धवस्तुप्रदः, प्रत्याशाविकलः कलङ्कविकलो ध्यायन्निदं चेतसि । धर्माधारशरीरधारणकृते पात्रप्रदत्तेन मे, पूर्वोपार्जितकर्मणामनुदिनं स्यान्निर्जरानिवृतिः ॥१॥ इदं पात्रमिदं वित्त-मिदं चित्तं निरन्तरम् । सम्पन्नं यस्य मे सोऽहं, कृतार्थोऽस्मीति दायकः ॥२॥ अथ ग्राहकशुद्धमाह चराचरजगजन्तु-जातसन्त्राणकारिणे। ज्ञानदर्शनचारित्र-धारिणे ब्रह्मचारिणे ॥२३३॥ एवंभूताय शान्ताय, गुप्ताय च तपस्विने। दानं ग्राहकसंशुद्धं, जगाद जगतां गुरुः ॥२३४॥ चराचरा, जङ्गमस्थावरास्ते च जगजन्तवश्च विश्वजीवाश्च, तेषां जातानिःसङ्घातास्तेषां सन्त्राणं रक्षणं तत्कारिणे तत्करणशीलाय चराचरजगज्जन्तुजातसन्त्राणकारिणे, ज्ञानदर्शनचारित्रधारिणे ब्रह्मचारिणे चेति सुगमम् ॥२३३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy