SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २४४ आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके यो यत्रातिकठोरकर्मवशगो जाती समुत्पदयते, दुःखार्तोऽपि स तत्र नन्दति चिरं जीवस्वभावो ह्ययम् । इत्यं यः करुणापरेण मनसा स्वस्मिन्निवैतेष्वपि, क्षेमार्थं यतते स एव भुवने जातो जगद्रक्षकः ॥२॥ मार्यमाणस्य हेमाद्रि, राज्यं वाऽथ प्रयच्छतु । तदनिष्टं परित्यज्य, जीवो जीवितुमिच्छति ॥३॥ रसातलं यातु, यदत्र पौरुष, कुनीतिरेपा शरणो ह्यदोषवान् । प्रहन्यते यदलिनाऽपि दुर्बलो हहा महाकष्टमराजकं जगत् ॥४॥ तथा च-गोभूमिसुवन्नहिरण्ण-माइदाणाई दिति बहुया वि । जे दिति अभयदाणं, ते वीरला जीवलोगम्मि ॥५॥ पढिया वेया चउरो, जहा जन्ना य तह तवो तविओ। जइ नत्थि जीवरक्खा, ता तं तुसकंडणं सव्वं ॥६॥ तं नाणं तं दाणं, सो य तवो तं च परमकोसल्लं । सवपयत्तेण सया, जीवाणं रक्खणं जत्थ ॥७॥ ता देह जहासत्तिं, अभयपयाणं जियाण सव्वाणं । जइ महह महंतसुहे, सव्वं सिद्धालये गंतुं ॥८॥ किंच-दीहाउओ सुरूवो, सुहिओ सव्वंगसुंदरायारो । सव्वत्य होइ जीवो, अभयपयाणाणुभावेणं ॥९॥२२९॥ धर्मोपग्रहदानं स्वरूपतो भेदतश्च बिभणिषु: श्लोकद्वयमाह, तद्यथा धर्मोपग्रहदानं, यदुपष्टम्भात्करोति शुभकर्म । तेन च तारयति यति-र्भवाब्धेर्दायकं स्वं च ॥२३०॥ तच्च चतुर्धा वीरैः, शिवसुखफलसाधकं समाख्यातम् । दातृग्राहकशुद्धं, शुद्धं कालेन भावेन ॥२३१॥ - धर्मोपग्रहदानं धर्मोपकारकं वितरणं यदुपष्टम्भाद्यद्बलेन करोति विधत्ते शुभकर्म शोभनानुष्ठानं, तेन च शुभकर्मणा तारयति यति: साधुर्भवाब्धेर्दायकं दातारं स्वं चात्मानं च, तच्च तत्पुनश्चतुर्धा चतुष्प्रकारं वीरैस्तीर्थकरादिभिः शिवसुखफलसाधकं मोक्षसौख्यफलनिवर्तकं समाख्यातं कथितं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy