SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ अधिकार १० / श्लोक २२८-२३१ / दानप्रकारा: २४३ अथ ज्ञानदानफलमाह किं किं दत्तं न तेनेह, किं किं नोपकृतं नृणाम् । येनागणितखेदेन, ज्ञानसत्रं प्रवर्तितम् ॥२२८॥ किं किं दत्तं न ? अपितु सर्वमेव तेनानिर्दिष्टनाम्ना जन्तुनेह लोके किं नोपकृतं? अपितु सर्वमेव नृणां नराणां, येन केनचिदगणितखेदेनापहस्तितप्रयासेन ज्ञानसत्रं ज्ञानमयसत्रागारं प्रवर्तितं विहितमिति।। उक्तं च- स्यादन्धस्य यथा चक्षु-दिग्मूढस्य च दिग्ग्रथा । मार्गो मार्गच्युतस्येव, ज्ञानमज्ञानिनस्तथा ॥१॥ इदं पुण्यं पापं भवति तदुपादानममुतो, विजानीते सर्वं निहितगुरुविज्ञानबलतः। प्रवृत्तः पुण्याय प्रसभमप्रवृत्तस्तदितरान्नरः संसाराब्धेरपसरति वेगात्प्लव इव ॥२॥ न ज्ञानदानाधिकमत्र किंचि-द्दानं भवेद्विश्वकृतोपकारम् । ततो विदध्याद्धि पुनः स्वशक्त्या, विज्ञानदाने सततप्रवृत्तिम् ॥३॥ पठति पाठयते पठतामसौ, वसनभोजनपुस्तकवस्तुभिः । प्रतिदिनं कुरुते य उपग्रहं, स इह सर्वविदेव भवेन्नरः ॥४॥२२८॥ अथाभयप्रदानदातुर्माहात्म्यमुपदर्शयन् तत्त्वतस्तदेवाह सर्वजीवाभयं भावा-दत्तं येन दयालुना । यद्दातव्यं तकत्सर्वं, दत्तं तेन महात्मना ।२२९॥ सर्वजीवाभयं समस्तसत्त्वाभीति वाच्छुद्धान्त:करणाद्दत्तं वितीर्णं येन केनचिद्दयालुना कृपालुना, यद्दातव्यं यत्किञ्चिद्वितरणीयं तकत्सर्वं तत्सकलमेव दत्तं वितीर्णं तेनाभयदानदात्रा महात्मना बृहदान्तरसत्त्वयुक्तेनेति । उक्तं च-वित्तव्ययो भवति नात्र न चाऽऽत्मपीडा, नाऽऽदीयते किमु मुधा पृथुपुण्यराशिः । यस्मादनेकविभवव्ययवस्तुदानेवेतद्विशिष्टतरमेव जिनैः प्रणीतम् ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy