SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २४२ आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके सोऽपि धर्मो दानादिभेदेन वितरणादिप्रकारेण चतुर्भेदश्चतुर्विधो भवान्तकृद्भवोच्छेदकारकः, तत्रापिभेदचतुष्टयेऽपिप्रथममाद्यंदानं वितरणं तीर्थनाथैः प्ररूपितं कथितमिति श्लोकार्थः ॥२२५।। अथ दानस्यैव फलं भेदांश्चाह यद्गृहे पेशला सम्प-द्यच्च लोकेषु मान्यता। सत्पुत्राः सत्कलत्राणि, यदन्यदपि सुन्दरम् ॥२२६।। तदेतद्दानत: सर्वं, तच्च दानं त्रिधा मतम् । विज्ञानाभयभेदेन, धर्मोपग्रहतस्तथा ॥२२७॥ यद्गृहे मन्दिरे पेशला सुन्दरा सम्पल्लक्ष्मी:, यच्च लोकेषु जनमध्ये मान्यता गण्यमानता, सत्पुत्रा: प्रधानतनया:, सत्कलत्राणि प्रवरभार्याः, यदन्यदपि सुन्दरं यदपरमपि श्रेष्ठं, तदेतत्तदिदं दानतो दानेन सर्वं समस्तं लभ्यत इति शेष:,उक्तं च "दाणेणं भूरिभोगा पवरसुहसहा रायलच्छी मयच्छी, दाणेणं दिव्वलद्धी भुवणभरसहा सुद्धबुद्धिसमिद्धी। दाणेणं दिव्वसत्ति धवलियभुवंशा देहदित्तिसुकित्ति, दाणेणं कज्जसज्जा विपुलमणहरा होइ विजाणवज्जा" ॥१॥ "दाणेणं जंति नासं गुविलगुरुतरा घोरवेराणुबंधा, दाणेणं होंति सव्वे, पयडमिहवसो वत्तिणो भूयसंघा"। "दाणेणं चंडदंडा विसमिव विसमा हुंति सत्तू वि मित्ता, दाणेणं रायपुत्ता विणयनयसिरा किंकरायंति निचं" ॥२॥ "किं तेन जातु जातेन, जीवितेनापि जन्तुना । जनानां यो न दीनानां प्रदानप्रवणः सदा" ॥३॥ "कुलीनेनापि किं तेन, तेन किं शीलशालिना । विशालविभवेनापि, तेन किं यो न दायकः" ॥४॥ तच्च दानं तत्पुनर्वितरणं त्रिप्रकारं मतं सम्मतं तद्विदामिति गम्यते । त्रैविध्यमेव दर्शयतिविज्ञानाऽभयभेदेन ज्ञानाऽभीतिप्रकारेण धर्मोपग्रहतो धर्मोपग्रहमाश्रित्य तथा तेन प्रकारेणेति श्लोकद्वयार्थः ॥२२६-२२७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy