________________
२४१
दानाऽधिकारः १०
उक्तो लोकविरुद्धपरिहाराधिकारः, अथ दानादिचतुर्विधधर्माधिकार उच्यते, अस्य चायमभिसम्बन्धः अनन्तराधिकारे लोकविरुद्धपरिहार उक्तः, स च धार्मिकैरेव शक्यते कर्तुं, धर्मः पुनर्दानादिभेदश्चतुर्भेति, · अतोऽत्र दानादिचतुष्टयं प्रतिपाद्यत . इति । तत्र तावदार्यदेशादिदुर्लभत्बप्रदर्शनपूर्वकं धर्मोपदेशं ददत् श्लोकत्रयमाह
धर्माधारार्यदेशेषु, मानुष्यं प्राप्य दुर्लभम् । तत्रापि शासनं जैनं, सद्रत्नमिव निर्मलम् ॥२२२॥ वाताहतवीचीवच्चञ्चलं वीक्ष्य जीवितम्। कल्याणमित्रसत्साधु-सामग्रीमवाप्य च ॥२२३॥ विपदाकुलमालोक्य, वित्तं चित्तं च चञ्चलम् । पुण्यपुष्टिकरे धर्मे किं साम्प्रतमुदासितुम् ? ॥२२४॥
धर्मस्य श्रुतचारित्रलक्षणस्याधारभूताश्च ते आर्यदेशाश्च पञ्चदशकर्मभूमिलक्षणास्तेषु मानुषत्वं मनुष्यत्वंप्राप्य लब्ध्वा दुर्लभंदुष्प्रापं, तत्रापि मानुषत्वेऽपि सति शासनंप्रवचनंजैनमार्हतं दुर्लभमिति वर्तते सद्रत्नमिव चिन्तारत्नमिव निर्मलं मलरहितम् ॥२२२।।
तथा वाताहतवीचीवत्पवनप्रेरितजलकल्लोलवच्चञ्चलं चपलं वीक्ष्यावलोक्य जीवितमायुष्कं, कल्याणमित्रसामग्री सत्साधुसामग्री हितकारिविशिष्टपरिजनपरिपूर्णतामवाप्यासाद्य च ॥२२३॥
तथा विपदाकुलमालोक्य व्यापदाकीर्णं समीक्ष्य वित्तं द्रव्यं, चित्तं च मनश्च चञ्चलं पुण्यपुष्टिकरे श्रेयोवृद्धिविधायके धर्मे सद्गुष्ठाने किमित्युपालम्भे साम्प्रतं युक्तमुदासितुमुदासीनै: स्थातुमिति श्लोकत्रयार्थः ॥२२४॥
अथ धर्मस्यैव भेदमाह
सोऽपि दानादिभेदेन, चतुर्भेदो भवान्तकृत् । तत्रापि प्रथमं दानं तीर्थनाथैः प्ररूपितम् ॥२२५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org