SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २४० आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके लोकविरुद्धान्याचरविविधं विडम्बित: । अन्यदाऽसौ मिलितश्चौराणां, गृहीतो नगरारक्षकेण, बद्ध्वा विडम्ब्य च प्रवेशितो गुप्तौ तत्र दुरन्तदुःखपरम्परामधिसहन् मृत्वा दुर्गतिं गत इति । शुभसङ्गः पुन: कुरुतें शिष्टैः सह सङ्ग, विधत्ते च तदुपदेशान्, वन्दते वन्दनीयान्, नमति नमनीयान्, किं बहुना ? सर्वत्र सदाचारपर एव वर्तते । ततो राज्ञा राजलोकेन शेषलोकेन च मान्यते पूज्यते च । ततोऽसाविहलोक एव शिष्टसङ्गवशेन धर्मलोकविरुद्धपरिहारेण व्यवहरन् समं कीर्त्या भूरिसम्पदमासाद्य विपुलकल्याणभाजनं जातः । दानादिधर्माचरणेन च पुण्यमुपाय॑ मृत्वा सुगतिं गतवानिति । मत्वेदं सर्वदा सद्भिः कर्तव्या शिष्टसङ्गतिः । परित्याज्य: कुसंसर्ग: सर्वानर्थप्रवर्तकः ॥१॥ इति लोकविरुद्धाधिकारः समाप्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy