________________
अधिकार ९ / श्लोक २१९-२२१ / शुभसङ्ग-कुसङ्गकथा
२३९
व्यापाद्य मांसं पक्तुमारब्धाः । तत: कुसङ्गः प्राह भ्रातरत्रैव तावत्क्षणान्तरं विश्राम्याव:, शुभसङ्गेनोक्तं वत्सैवं ते पुरुषा न सङ्गता मम प्रतिभासन्ते नावयो: सङ्गतमत्रावस्थानं, तदग्रतो व्रजाव: , स प्राह किमेते करिष्यन्ति ? किमेतेषां पातकमुत्पत्य लगिष्यति ? तदत्रैव स्थास्याव इत्यादि लपन् भूयो भूयोऽपि शुभसङ्गेन स कुसङ्गो वार्यमाणोऽपि तत्रैव स्थित:, शुभसङ्गः पुनरग्रतो गतः । तत्रैव च तेन सुधनसार्थवाहस्यावासो दृष्टः प्रविष्टश्च तत्र, यावत्क्षणान्तरं सार्थवाहसमीपे तिष्ठति तावत्ते पूर्वव्यावर्णितचौरा: कुट्टिकैरागत्य बद्धाः, तेनान्तेन चालिता:, सोऽपि कुसङ्गस्तन्मध्यगत एव बद्धो नीयते, दृष्टश्च शुभसङ्गेन, कथितं च सार्थवाहस्य यदुतायं निर्दोष एव बद्धो नीयते, श्रुत्वेदं मोचितस्तेन, मिलितो भ्रातुः, शिक्षितश्च तेन यथा वत्स ! कुसंसर्गस्तावदेवंविधानेकानर्थकारणमिति मत्वा न कर्तव्यस्त्वयेत्यादि।
ततो द्वावपि प्रस्थितावग्रतो गन्तुं यावत्तावदेकत्र दृष्टा आपानमण्डलीमवाप्य मद्यं पिबन्तो मांसं चभक्षयन्तो बहवो मत्तपालकाः, ततो भणितंकुसङ्गेन भ्रातरत्रापि तिष्ठाव: क्षणमात्रं, ततश्च गमिष्याव:, शुभसङ्गेनोक्तं न युक्तमत्रावस्थानं, गम्यतामग्रत इति वार्यमाणोऽपि स्थित: कुसङ्गः, गत: शुभसङ्गः, ततोऽसौ कुसङ्गस्तैर्मत्तपालकै: समाहूय निमन्त्रितो मद्यमांसाभ्यां, ततस्तेनापि लौल्यवशेन पीतं मद्यं, भक्षितं मांसं, मत्तश्च क्षणान्तरेण नष्टचित्तोऽसमञ्जसं चेष्टितुमारब्धः, कुरुते गीतं, विधत्ते नृत्यं, दत्ते गाली:, समुत्तिष्ठति युद्धाय, प्रलपत्यसम्बद्धम् ।
अथैवं तेषां मत्तपालकानामसम्बद्धप्रलापिनां परस्परं विवदमानानां लग्नं युद्धं, प्रवृत्ताश्च ते कर्तुं दण्डादण्डि केशाकेशि मुष्टामुष्टि । ततोऽसौ कुसङ्गस्तैर्मत्तपालकैः कदच॑मानो नष्टः प्रवृत्तश्च गन्तुं शुभसङ्गाभिमुखं, लग्नाश्च ते तत्पृष्ठतः, गृहीतश्च तैः पश्चादागत्य केशेषु । ततस्तं सुचिरं कदर्थयित्वा गतास्ते मत्तपालका: । कुसङ्गोऽपि साध्वसवशेन कम्पमानाङ्गयष्टिर्गत: शुभसङ्गसमीपं, पृष्टश्च तेन यथा किमहो भयातुर: ? तेनोक्तं यत्त्वदीयं वचनं न कृतं तस्य फलमिदमिति।
ततस्तौ द्वावपि संहतावेव गतौ सिंहपुरनगरं, स्थितौ च तत्र धनपालश्रेष्ठिन: समीपे, जाता च तेन सार्धं प्रीति:, अर्पितश्च तयोरापण एकः, दत्तं च व्यवहारयोग्यं द्रविणजातं, प्रवृत्तौ चव्यवहर्तुम्, आसादयतश्च यथोत्तरं लाभं। ततोऽसौ कुसङ्गस्तत्रापि कुरुते चौरपारदारिकतकारादिभिः षिङ्गलोकैः सह सङ्गं, तत: क्वापि निर्दोषोऽपि स चौर इति कृत्वा कदर्थ्यने नगरारक्षकैः, क्वापि पारदारिक इति कृत्वा विडम्ब्यते, क्वापि द्यूतकार इति कृत्वा निन्द्यते जनै:, कुत्रापि मत्तपालक इति कृत्वा जुगुप्सास्पदमास्कन्दति । एवमनेकधा तत्र स कुसङ्ग: कुसंसर्गदोषेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org