________________
२३८
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
तेनोदीरितमेतस्यां, श्रेष्ठिन्! कुटयां सदैव सा । बद्धयमाना बभूवाथ, जनानन्दविधायिनी।१०५। श्रेष्ठी प्रोवाच भो सेयं, पित्रा ते यदधः किल । खानितस्त्वं सरो वत्स, न सा गङ्गाम्बुवाहिनी॥१०६॥ तदत्र विद्यते द्रव्यं, निखांतमिति तर्कये । तद्गच्छ सर्वत: कुट्या:, खान्यते मेदिनीतलम् ॥१०७॥ तथैव खानितं तूर्णं, निष्क्रान्तं द्रविणं बहु । तल्लाभे धनचन्द्रोऽसौ, सानन्दोऽजनि मानसे ॥१०८॥ तदेवं धनचन्द्रस्य, सद्बुद्धया बुद्धिबन्धुरः । सर्वत्र सुस्थतां कृत्वा, जगाम निजके पुरे ॥१०९॥ तदहो पुत्रकौ! नृणां, सद्बुद्धि: कार्यसाधिका। कुबुद्धिः किल लोकेऽस्मिन्, सर्वकार्यविनाशिनी।११०। मत्वेदं सर्वदा वत्सौ !, युवाभ्यां सर्वकर्मसु । सम्यगालोच्य सद्बुद्ध्या, वर्तितव्यं हि नान्यथा।१११॥ तथा पुत्रौ! न कर्तव्या, निन्दा कस्यापि देहिनः । निन्द्यमानो जनो येन, सुस्निग्धोऽपि विरुद्धयते।११२॥ मत्वेदं सर्वदा वत्सौ !, गुणरत्नविभूषिताः । निन्दनीया जना नैव, यनिन्दा धर्मनाशिनी ॥११३॥ तथा भो पुत्रकौ ! नित्य-मुपहासो न कस्यचित् । कार्य: स्वपरयोर्येन, स प्रद्वेषविधायकः ॥११४॥ न चावज्ञा विधातव्या, लोकपूज्ये जने सदा। सा हि लोकद्वयेऽप्युच्चै-धर्मार्थप्रतिघातिनी ॥११५॥ बहुलोकविरुद्धेन, लोकेन सह सङ्गति: । न कार्या सर्वदा सा हि, सर्वानर्थनिबन्धनम् ॥११६|| विधातव्यं सदा नैव, देशाद्याचारलङ्घनम् । सुप्रशान्त: सदा वेषो, धारणीयो न चोद्भटः ॥११७॥ धर्मे भोगे निधौ भृत्ये, देयं लाभोचितं धनम् । एवं तौ शिक्षयन् श्रेष्ठी, गमयामास वासरान् ॥११८॥ अन्यदा स मृत: श्रेष्ठी, जातौ तौ गृहचिन्तकौ । शुभसङ्गकुसङ्गाख्यौ, प्रीतियुक्तौ सहोदरौ ॥११९॥
तत्र च स शुभसङ्गः, स्वभावेनैव सुशील:, शुद्धसमाचार: शिष्टजनसंसर्गप्रिय: सलज्जो धर्मलिप्सुः पापभीरुर्दयादानदाक्षिण्यसौजन्यसदौदार्यगाम्भीर्यधैर्यादिसद्गुणकलापकलित:, प्रकृत्यैव शुभप्रशान्तविमलविशालाशय:, शशीव सुभगसुप्रशान्तमूर्तिः, सुसाधुरिव सुप्रशान्तवेषधारी, सर्वदाऽपि धर्मलोकविरुद्धानि परिहरन् सदा शिष्टजनाचरितं देशाचारं कुलाचारं धर्माचारं च समाचरन्, निजकुलक्रमायातन्यायवृत्त्या व्यवहरन् कालमतिवाहितवानिति, कुसङ्ग: पुन: स्वभावेनैव दुःशीलो दुष्टसमाचारो दुष्टजनसंसर्गकारकश्च, एवं चं शुभसङ्गगुणास्तस्य विपरीता भावनीया: एकेनैव जनकेन जातावप्येकमातृकुक्षिसमुत्पन्नावपि तौ विषमशीलौ जातौ । कर्मानुसार्येव प्राणिनां गुणकलापो न प्रायो जात्यादिकमपेक्षते, .
यत:- एकोदरसमुत्पन्ना, एकनक्षत्रजातकाः ।
न भवन्ति समशीला यथा बदरीकण्टकाः ॥१॥ एवं च तयोः सरति संसारे धनं निधनमुपगतं, दारिद्यं च समागतं, भोजनमात्रमपि कष्टेन सम्पद्यते, ततस्तौ तत्र परप्रेष्यादि कर्तुमशक्नुवन्तावनिर्वहन्तौ च देशान्तरं सम्प्रस्थितौ, गच्छन्तौ च सम्प्राप्तावटवीमध्ये । तत्रैकत्र ताभ्यां दृष्टा बहव: पुरुषा:, तदासन्ने गोधनं च प्रभूतं, ते च गामेकां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org