________________
अधिकार ९ / श्लोक २१९-२२१ / शुभसङ्ग-कुसङ्गकथा
२३७
यत्र वा तत्र वा स्थाने, सुखमेव न संशय: । भूरिकोमलतूलीषु, सततं शायिनां न हि ॥७८।।
यत: छुह मिट्ठी तिस सीयली, मउई निद्द न मंति ।
जा रुचइ सा रूयडी, छेयाए उ भणंति ॥७९॥ यच्च दत्त्वापि नो याच्य-मस्यार्थोऽयं विबुध्यते । कदाचिदपि नो देयं, द्रव्यं ग्रहणकं विना ॥८॥ वृतिर्दन्तमयी कार्या, यदुवाच पिता तव । तस्यार्थोऽयं वृति: कार्या, सत्सुभटमया गृहे ॥८१॥ हन्तव्या यज्जनी बद्ध्वा, तस्यार्थ: कथ्यते तव । पुत्रबन्धनबद्धा हि, हन्तव्या निजका जनी ।।८२।। प्रासादा: कारणीयाश्च, ग्रामे ग्रामे पुरे पुरे । यदुक्तं तव तातेन, तस्यार्थोऽयं प्रकथ्यते ।।८।। सर्वत्र स्वजना: कार्या, दानसन्मानपूजिताः । ते प्रासादा अपि स्वीया, मन्तव्या: परमार्थतः ॥८४|| यदुक्तं खानयेर्वत्स!, गङ्गाधस्तान्महासरः । तस्यार्थं न विजानेऽह-माख्यास्यामि विमृश्य ते ॥८५॥ तदहो तव सद्बुद्धि-दत्ता पित्रा सुखावहा । त्वया तु बुद्धिहीनेन, सान्यथैवावधारिता ॥८६॥ तद्वत्स! मा कृथाः खेदं, सर्वं श्रेष्ठं भविष्यति । सुष्ठ श्रेष्ठं त्वयाकारि, यदायातो मदन्तिके ॥८७॥ एवं संस्थाप्य तं श्रेष्ठी, सद्वाक्यैर्बुद्धिबन्धुरः । तत्रैव धारयामास, मासमेकं सगौरवम् ।।८८॥ ततो विज्ञप्य राजानं, याचित्वाश्वरथादिकम् । सामुग्री महतीं कृत्वा, गत: कुम्भपुरे पुरे ॥८९।। धनचन्द्रो धृतो द्वारि, गतो राजकुले स्वयम् । दत्तं राज्ञो धनं भूरि, विज्ञप्तश्च यथा नृप ! ॥९०॥ श्रेष्ठिनो धनदत्तस्य, धनचन्द्राभिधः सुतः । उपाय॑ भूरिवित्तौघ-मायातो द्वारि तिष्ठति ॥९१॥ सुप्रसादं मन: कृत्वा, तदायातु नरेश्वरः । सन्मुखं तस्य येनासौ, पुरमध्ये प्रवेश्यते ॥१२॥ तथा कृतं नरेन्द्रेण, ततोऽत्यन्तं महर्द्धितः । गजारूढो ददद्दानं, पुरमध्ये प्रवेशितः ॥१३॥ वाद्यमानैर्वरैस्तू-र्गीयमानै: सुमङ्गलैः । इत्थं भूत्या गतो गेहे, राज्ञा शेषजनै: सह ॥९४।। पूजितो वरवस्त्राद्यै, राजा शेषजनस्तथा । तत: सन्मान्य नत्वा च, नरनाथो विसर्जितः ॥९५।। यथार्ह शेषलोकश्च, गतो गेहे निजे निजे । ततो गेहं समारब्धं सुधया धवलीकृतम् ॥१६॥ मण्डितं चित्रितं चित्रै, राजवेश्मसमं कृतम् । गवाक्षजालिकायुक्तं, स्तम्भमण्डलमण्डितम् ।।९७।। ततो येभ्यो धनं लभ्यं, ते समाहूय सत्वरम् । एवमुक्ता यथा भो भो, श्रूयतां मामकं वच: ।।९८॥ येन यावद्धनं देयं, सोऽधुना सकलान्तरम् । स्वयं ददातु मे नो चे-द्दण्डग्राह्यो भविष्यति ॥९९॥ एवं श्रुत्वा जनैः सर्वैः, स्वयमेव भयातुरैः । यद्दातव्यं तदानीय, प्रदत्तं सकलान्तरम् ॥१०॥ एवं भूयोऽपि स श्रीमान्, बुद्धिबन्धुरबुद्धित: । जात: कीर्तिं परां प्राप, लोकमध्ये च पूज्यताम्।१०१॥ अन्यदा धनचन्द्रं तं, बभाषे बुद्धिबन्धुरः । किं भो तव गृहे पूर्वं, काचिद्गङ्गाभिधानिका ॥१०२॥ बभूव महिषी गौर्वा, कुम्भिका घोटिकापि वा। वाटिका क्षेत्रिका वापि, गन्त्रिका चापरापि वा।१०३। स प्राह मेऽभवत्तात !, गङ्गाख्या वरघोटिका । श्रेष्ठी प्रोवाच सा कुत्र, स्थाने पूर्वमबद्धयत ॥१०४।। १ BPJC | श्लोकोऽयं मु. नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org