________________
२३६
-
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
त्वया वत्स! सदाकालं, भोक्तव्यं मिष्टभोजनम् । सुप्तव्यं च सुखेनैव, यथा निद्रा समेति ते।४९। दत्त्वा कलान्तरेण स्वं, याचितव्यं धनं न हि । वृतिर्दन्तमया कार्या, पार्श्वतो निजवेश्मनः ॥५०॥ रुष्टेन यदि हन्तव्या, निजा भार्या कथञ्चन । तदा बद्ध्वा दृढैर्बन्धै-हन्तव्या पुत्र ! नान्यथा ॥५१।। कारणीयाश्च ते वत्स!, ग्रामे ग्रामे पुरे पुरे। प्रासादा: सुन्दरास्तुङ्गाः, सर्वलोकमनोहरा: ॥५२॥ तथा त्वं खानयेर्वत्स!, गङ्गाधस्तान्महासरः । एवं ते कुर्वतो नित्यं, सर्वश्रेष्ठं भविष्यति ॥५३॥ इत्थं कृतेऽपि हे पुत्र !, यदि नश्यति ते धनम् । तदा गच्छे: पितृव्यस्य, पार्श्वे स्वर्णपुरे पुरे।५४१ एवं शिक्षयत: पुत्रं, श्रेष्ठिनो यान्ति वासरा: । अन्यदा च मृतः श्रेष्ठी, पुत्रस्तस्य पदेऽजनि ॥५५॥ कालेनापेतशोकश्च, गृहचिन्तां चकार स: । तत: स्मृत्वा पितुर्वाक्यं, कारयामास सुन्दरम् ॥५६॥ आहारं घृतपूर्णाढ्यं, बुभुजे भूरिश: सदा । जीर्यते च न तत्तस्य, बुभुक्षापि न जायते ॥५७॥ ततो रोगै: समाघ्रात:, क्षीयते प्रतिवासरम् । सुष्वाप च सुखस्पर्श, चारुतूलीषु सन्ततम् ॥५८॥ न च निद्रामतिस्वापा-ल्लभतेऽसौ सुखप्रदाम् । दत्ते कलान्तरेणैष, स्वं द्रव्यं याचते न हि ॥५९॥ गच्छद्भिर्दिवसैरेवं, स्तोकीभूतं ततस्तकत् । वृतिर्दन्तमया तेन, कारिता निजवेश्मनः ॥६०॥ सर्वतोऽपि समुत्तुङ्गा-स्तत्र द्रव्यं गतं बहु । रुष्टेन प्रहता भार्या, बद्ध्वा निबिडरज्जुभिः ॥६१॥ बहुधा हन्यमाना सा, गता रुष्टा पितुर्गुहे। कारिताश्च समुत्तुङ्गा: प्रासादा नगरादिषु ॥६२॥ क्रियमाणेषु तेष्वेवं, जातो भूरिधनक्षय: । खानितं तेन विस्तीर्णं, गङ्गाधस्तान्महासरः ॥६३॥ तच्च गङ्गाम्बुपूरेण, प्लाव्यते प्रतिवासरम् । एवं खानयता तेन, प्रतिवर्षं च तत्सर: ॥६४|| क्षयं नीतं निजं द्रव्यं, जातो दरिद्रशेखर: । ततोऽभिभूयते [दुःखं, सदा तेन] बुभुक्षया ॥६५॥ अथासौ चिन्तयामास, विषण्णो दीनमानस: । अहो मया पितुर्वाक्यं, सर्वं नि:संशयं कृतम् ॥६६॥ नष्टा तथापि मे लक्ष्मी:, कुलक्रमसमागता। पिता च मेऽभवद् दूरम्, सद्बुद्धिः पुत्रवत्सलः ॥६७॥ हितश्च सर्वलोकानां, मामाश्रित्य विशेषत: । कृतं च तद्वच: सर्वं, धनं च निधनं गतम् ॥६८॥ कारणेनात्र भो भाव्यं, यन्मुक्तोऽहं निजश्रिया । एवं चिन्तयतस्तस्य; पितुर्वाक्यं हृदि स्थितम् ॥६९॥ यथाहं निर्धनीभूतः, पित्रा सम्प्रेषित: किलं । समीपे स्वपितृव्यस्य, पुरे स्वर्णपुराभिधे ॥७०॥ तदेतदपि निशङ्कः, पितुर्वाक्यं करोम्यहम् । गच्छामि तत्र पश्यामि, पितृव्यं बुद्धिबन्धुरम्॥७॥ विचिन्त्यैवं गतस्तत्र, स्थितोऽसौ कानने बहि: । दृष्टश्चापि पितृव्येन, नीतो गेहे सगौरवम् ।।७२।। स्नापितो भोजितस्तेन, पृष्टश्चैकान्तमाश्रित: । तेनापि कथित: सर्व:, स्ववृत्तान्त: सविस्तरः ॥७३।। कुर्वन्नपि पितुर्वाक्यं, ताताहं दुर्गतोऽभवम् । आकर्येदं शिरो धुन्वन्, बभाषे बुद्धिबन्धुरः ।।७४॥ यथा मद्भातृवाक्यार्थः, सम्यग्बुद्धो न हि त्वया । तत्तदर्थं तवाख्यामि, शृणु श्रुत्वावधारय ।।७५।। यदुक्तं तव तातेन, भोक्तव्यं मिष्टभोजनम् । तस्यार्थोऽयं यथा वत्स!, भुज्यते यद् बुभुक्षितैः ॥७६।। सरसं विरसं वापि, तत्सर्वं मिष्टमेव हि । सुप्यते च सुखेनेह, यदा निद्रा समेत्यहो ॥७७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org