________________
अधिकार ९ / लोक २१९ - २२१ / शुभसङ्ग; - कुसङ्ग कथा
अन्यदा च समायातो, रात्रौ व्याधिर्नृपान्तिकम् । स ब्रूते तव देहेऽहं प्रविशामि कदाचन ॥ २१ ॥ यदि ते रोचते भूप !, सम्प्रत्यपि विशाम्यहम् । वृद्धत्वे तु प्रवेक्ष्यामि, त्वच्छरीरे न संशयः ॥२२॥ भूपः प्राह समालोच्य, ददामि तव निर्णयम् । स प्राहैवं विधेहीति, ततो राज्ञी महीभुजा ॥२३॥ पृष्टा सा च बभाणैवं, सम्प्रत्येव नरेश्वर ! । विशत्वेष महाव्याधि - र्विदधातु समीहितम् ॥२४॥ यतस्ते वैद्यपथ्यादि-सामग्री विद्यतेऽधुना । आदेशकारिणः सर्वे, वैद्यामात्यादयो जनाः ॥२५॥ राज्ञीवाक्यं प्रपद्यैवं, व्याधिरुक्तो महीभुजा । सम्प्रत्येव मदीयाङ्गे, प्रविश त्वं यथारुचि ॥२६॥ तेनापि च तथा चक्रे, तत: प्रातर्विशेषतः । दर्शितं वैद्यपुत्राणां, कीदृशं मे शरीरकम् ? ॥२७॥ तैरूचे काञ्चनच्छायं, सर्वरोगविवर्जितम् । ततस्तत्सर्वतो वीक्ष्य, सुविद्येन प्रजल्पितम् ॥२८॥ राजन् सर्वरुजाघ्रातं, लक्ष्यते ते शरीरकम् । वैद्यपुत्रैस्ततः प्रोचे, किं त्वं जानासि रे शिशो ! ||२९|| येनैवं पुरतो राज्ञः, पाण्डित्यं नाटयस्यहो । एवमादि प्रजल्पन्तः, सुविद्यं वैद्यपुत्रकाः ||३०|| राज्ञा निष्कासिताः सर्वे, निर्भर्त्स्य कटुकोदितैः । गत्वैकान्ते ततः पृष्टः, सुविद्यो हृष्टचेतसा ॥ ३१ ॥ साध्यः किं तेऽस्त्ययं व्याधिः ?, साध्य एवेति सोऽवदत् । परं लक्षद्वयं राजन्!, दीनाराणां प्रयास्यति ||३२||
।
राज्ञोक्तं च गृहाण त्वं, द्रव्यजातं सुबह्वपि । विधेहि मामकं देहं सर्वथा रोगवर्जितम् ॥३३॥ सुविद्योऽपि ततो द्रव्यं गृहीत्वा ससहायक: । गत्वा नानाप्रकारेषु, पर्वतेषु वनेषु च ||३४|| भ्रान्त्वा लात्वा समायातः, कन्दमूलवरौषधीः । ततः पक्कं वरं तैलं, लक्षपाकाभिधानकम् ||३५|| कृत्वा कचोलके राज्ञः, सुविद्येन तदर्पितम् । उक्तश्चासौ यथा राजन् !, जिघ्रेदं वरतैलकम् ||३६|| भूभुजापि तथा चक्रे, ततो व्याधिरभाषत । नाहं शक्तोऽस्य तैलस्य, सोढुं गन्धं सुदुष्षहम् ||३७|| ततो राजेन्द्र ! यास्यामि, मुक्त्वा तव शरीरकम् । राजाह यदि मे देहे, पश्चादपि प्रवेक्ष्यसि ॥ ३८ ॥ तन्मा यासीरहो व्याधे!, तिष्ठ तिष्ठ निराकुलः । स प्राह सर्वथा नैव, त्वच्छरीरे विशाम्यहम् ॥ ३९ ॥ ततो मुत्कलितो राज्ञा, कृत्वा शपथशापित: । गतो व्याधिर्नरेन्द्रोऽपि, नीरोगोऽजनि तत्क्षणात् ॥४०॥ ततो राज्ञा सुतुष्टेन, सुविद्यो वैद्यनायकः । कृतो दत्तं बहु द्रव्यं, सद्वस्त्राभरणादि च ॥४१॥ महती च कृता वृत्ति-तोऽसौ पूज्यतां जने । आनीता च निजा माता, तत्र बन्धुजनस्तथा ॥ ४२ ॥ श्लाघ्यमानो जनैः सर्वैर्बुभुजे निजसम्पदम् । सर्वेषामपि तत्रत्य - सुवैद्यानां धुरि स्थितः ||४३|| तदेवं भो ! सुविद्योऽसौ, सर्वकल्याणभाजनम् । जातः सद्बुद्धियोगेन, सुबुद्धिस्तेन मन्यते ॥४४॥ कुबुद्धया तु निजा लक्ष्मी - र्नाशिता श्रेष्ठसूनुना । यथा तथा समाख्यामि, पुत्रकौ ! श्रूयतामिति ॥ ४५ ॥ अस्त्यत्र मेदिनीपीठे, पुरं कुम्भपुराभिधम् । आसीत्तत्र गुणश्रेष्ठः, श्रेष्ठी भूरिधनालयः ॥४६॥ धनेश्वर इति ख्यातः ख्यातकीर्ति: सुधीरधीः । धनचन्द्रः सुतस्तस्य, सर्वदाज्ञाविधायकः । ४७। अन्यदा जनकेनैष, प्रोक्तः शिक्षां प्रयच्छता । मदुपदेशमेकाग्रः, शृणु वत्स ! क्षणान्तरम् ॥४८॥
"
Jain Education International
For Private & Personal Use Only
२३५
www.jainelibrary.org