________________
२३४
आचार्य श्रीवर्धमानसूरिचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
शकुन्तोऽपि निजं नीडं, रक्षत्येव यथाबलं । त्वया गावो निवार्यास्त-नाशयन्त्यो मठं स्वकम् ॥१४|| इत्येवं शिक्षयामास, तापस: सोऽथ तं जिनम् । तत: स्वामी तदप्रीतिं, ज्ञात्वा निर्गतवांस्तत: ॥१५॥ प्रावृषोऽतिगते पक्षे, सोऽस्थिकग्राममाययौ । अप्रीतिपरिहाराय, यतेतैवं यथा जिनः ॥१६॥ एवं विज्ञाय सर्वत्र, पराप्रीतिकमुच्चकैः । विवेकिभिः परित्याज्य-मात्मनो हितकातिभिः ॥१७॥
शुभसङ्ग-कुसङ्गकथा
अथ शुभसङ्गकुसङ्गदृष्टान्त: कथ्यते, स चायम्अस्तीह सर्वतो रम्यं, पुरं जयपुराभिधम् । तत्र श्रेष्ठी सदाचारो, बभूव मतिसागरः ॥१॥ शुभसङ्गकुसङ्गाख्यौ, तस्य पुत्रौ बभूवतुः । अन्यदा तौ हितैर्वाक्यैः, श्रेष्ठिना शिक्षितौ यथा ॥२॥ भोभोवत्सौ! सदा कार्य, कार्यं सद्बुद्धिपूर्वकम्। सबुद्ध्या स्वार्थसंसिद्धिः, स्वार्थहानि: कुबुद्धितः।३। सद्बुद्धियोगतो यात:, सर्वकल्याणभाजनम् । सुविद्यो वैद्यसत्पुत्र:, पूर्वमेवं मया श्रुतम् ॥४॥ आसीदत्र सुविख्यात:, पुरे शंखपुराभिधे। शुभचन्द्राभिधो वैद्य-चिकित्साशास्त्रकोविदः ।।५।।
सुभद्रा नाम तत्पत्नी, सुविद्यो नामत: सुतः ।
पाठ्यमानोऽपि पित्रासौ, न पपाउं कथञ्चन ।।६।। परं चित्ते सुबुद्धित्वाद्, दृष्टमात्रमपि स्फुटम् । दृष्टश्चानेकधा तेन, पिता कुर्वन् चिकित्सनम् ॥७॥ व्याधिमज्जन्तुजातानां, नानाशास्त्रवरौषधैः । अथान्यदा सुविद्यस्य, लघोरपि मृत: पिता ॥८॥ कृतानि मृतकृत्यानि, सुविद्यस्तत्पदे स्थितः । अथ तं मूर्खमालोक्य, सुभद्रा निजनन्दनम् ॥९॥ स्मृत्वा सर्वगुणान् भर्तृ, रुरोद प्रतिवासरम् । सुविद्योऽपि विलोक्यैवं, रुदन्तीं निजमातरम् ॥१०॥ पृच्छति स्म यथा मात: !, किमेवं रुद्यते त्वया ? । सा प्राह ते पिता वत्स!, सर्वशास्त्रविशारदः।११। बभूव त्वं पुनर्मूर्ख-स्तेनाहं वत्स ! रोदिमि । तेनोचे मा कृथाः खेदं, सम्प्रत्यपि पठाम्यहम् ॥१२॥ सा प्राह वत्स ! यद्येवं, गच्छ त्वं श्रीपुरे पुरे । तत्रास्ते सुन्दरो नाम, सुप्रसिद्धो भिषग्वरः।१३। राज्ञोऽमात्यः पितृव्यस्ते, चिकित्साशास्त्रकोविदः । श्रुत्वेदं वचनं मातु-र्गतोऽसौ श्रीपुरं क्रमात् ॥१४॥ प्रणम्य सुन्दरं तत्र, निषण्णो दर्शितासने । सुन्दरेण तत: पृष्टा, क्षेमवार्ता प्रजल्पितम्॥१५॥ निवेदयाथ मे वत्स!, किमागमनकारणम् ? । तेनापि कथितं सर्वं, तत: प्रोवाच सुन्दरः ॥१६॥ सुन्दरं ते कृतं वत्स!, यदायातो ममान्तिकम् । ममान्ते वैद्यपुत्राणा-मधीते शतपञ्चकम् ॥१७॥ तदधीष्व त्वमप्यत्र, निश्चितं स्वगृहे यथा । ततस्तत्र पपाठेष, सुविद्य: सुन्दरान्तिके ॥१८॥ समं वैद्यसुतैर्नित्यं, ययौ च नृपमन्दिरे । श्रीविलासो नृपस्तत्र, भूरिथ्रीकुलकेतनम् ॥१९॥ प्रत्यहं वैद्यपुत्राणां, दर्शयति निजं वपुः । एवं च कुर्वतो राज्ञो, गत: काल: कियानपि ॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org