________________
अधिकार ९ / श्लोक २१०-२२१ / श्रीमहावीरप्रभुप्रसङ्गः शुभसङ्गकुसङ्गकथा
२३३
साम्प्रतं कृत्यमुपदिशन्नाह-सङ्क्लेशपरिहारेण चित्तखेदपरित्यागेन धर्म: पुण्यं वीरेण चरमतीर्थकरेण दर्शित: प्रतिपादितस्तापसाश्रमं तापसकुटीरकमुत्सृज्य परित्यज्याऽसमयेऽप्यप्रस्तावेऽप्यन्यत्र वर्धमानपुरे गच्छता विहरता ॥२१८।।
अथ लोके विरुद्धवर्जनावर्जनयोर्गुणदोषौ दर्शयन् श्लोकद्वयमाह-धर्मलोकविरुद्धानीत्यादि सुगमावेतौ, नवरं शुभसङ्गवदिति शुभसङ्गाख्यवणिक्पुत्र इव, तथा कुसङ्गवदिति कुसङ्गाभिधवणिक्सुत इव ॥२१९-२२०॥
अथ लोकविरुद्धाधिकारं निगमयन्नाह-तस्माल्लोकविरुद्धानां परिहार इत्यादि श्लोक: सुगम एव ।।२२१॥
इति श्लोकद्वाविंशतिसमासार्थः, अत्र च परागैतिकपरिहारार्थं वर्षास्वेव तापसाश्रयमुत्सृज्य भगवान् श्रीमन्महावीरस्वाम्यस्थिकग्राममुपगतवानिति कथानकादवसेयं, तच्चैवं
श्री महावीरप्रभु जीवन प्रसङ्गः
जिन: श्रीमन्महावीरो, वीरितान्तरशात्रव: । प्राज्यं राज्यं परित्यज्य, प्रव्रज्यां प्रत्यपद्यत ॥१॥ नि:सङ्गोऽपि महासत्त्व:, सत्त्वानां रक्षणोद्यत: । ग्रामादिसङ्कलां पृथ्वीं, छद्यस्थो विहरन्नसौ ॥२॥ मयूराकाभिधं ग्रामं, सम्प्राप्तस्तत्र चाश्रयः । दूयमानाभिधानानां, पाखण्डिगृहिणामभूत्।३। तेषां कुलपतिर्मित्र-मासीद्भगवत: पितुः । महावीरमसौ दृष्ट्वा, सम्भ्रमेण समुत्थितः ॥४॥ स्नेहादालिङ्गनार्थाय, श्रीजिनस्य ततो जिन: । बाहुं प्रसारयामास, तं प्रति प्राक्प्रयोगतः ।।५।। सोऽवोचत्सन्ति वेश्मानि, योग्यान्यत्राश्रमे तव । तत: कुमार ! तिष्ठ त्व-मत्राथ जिननायक ! ॥६॥ एकां तत्र स्थितो रात्रि-मन्यत्र गतवांस्तत: । गच्छन्तं च प्रभुं स्नेहा-दवोचत्तापसाधिपः ॥७॥ यदत्र रोचते तुभ्यं, तदागत्य विधीयताम् । वर्षावासो जनस्यास्या-नुग्रहार्थं त्वया मुने ! ॥८॥ मासानष्टौ विहत्याथ, तं ग्राममागमज्जिनः । उपागतासु वर्षासु, मठं चैकमुपाश्रितः ॥९॥ प्रारम्भे प्रावृषस्तत्रा-ऽ प्राप्नुवन्ति नवं तृणम् । गोरूपाणि मठानां त-त्प्रचखादुः पुरातनम् ॥१०॥ तापसा वारयन्ति स्म, तानि ते दण्डपाणय: । भट्टारक: पुनस्तानि, नि:सङ्गत्वादुपेक्षते ॥११॥ ततस्ते तापसा: स्वस्य, नायकस्य न्यवेदयन् । यथैष भवतामिष्टो, गोभ्यो नावति ते मठम् ॥१२॥ तत: कुलपतिर्गत्वा, बभाण श्रीजिनं प्रति । कुमार ! भो न युक्तं ते, मठस्योपेक्षणं यत: ॥१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org