________________
२३२
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
__एतद् द्वयमप्यत्यन्तदुष्टमिति दर्शयन्नाह-महापापवतां कल्मषाकुलचेतसां लिङ्गं चिह्न देवकुलस्येव पताकिका प्रकीर्तितंभणितम्, एकंप्रथमं परजनेआत्मव्यतिरिक्तलोके निन्दा दोषग्रहणलक्षणा, स्वप्रंशंसात्मश्लाघा द्वितीयकमपरम् ॥२१०॥
__किंच-यदि धर्म: कर्तुमारब्धो विधातुमारब्धः स एव क्रियतांस एव विधीयतां जना लोका:, परनिन्दामहापापामहापापजनयोग्यत्वात् क्वोपयुज्यते? नक्वापीत्यर्थः ॥२११॥
अन्यच्च-अनुष्ठानानि क्रियाकाण्डानि तान्येव तुल्यानि यान्येकस्य द्वितीयस्यापि तान्येव परं केवलमाजीविकाहेतो: स्वोदरभरणकृते दण्डादण्डिसमर्गलं दण्डैश्च दण्डैश्च प्रहत्य युद्धप्रवर्तनं दण्डादण्डि समर्गलं समधिकम् ॥२१२।।
यो यथा जघन्यमध्यमोत्कृष्टभेदेन कुरुते विधत्ते पुण्यं श्रेय: स पुमांस्तथा तदनुसारेण लभते फलं विपाकं शुभाशुभकर्मणामिति शेष:, तदेवं व्यवस्थिते भो जना भो लोका: किमिदं क्रियते केशाकेशि निरर्थकं, केशेषु च केशेषु च गृहीत्वा युद्धप्रवर्तनं केशाकेशि, निरर्थकं निष्प्रयोजनम्, अयमप्यव्ययीभव एव समासः ॥२१३।।
किञ्च स्वपक्ष: साधुसाध्वीलक्षण: विपक्षस्तापसादिः, ताभ्यां सम्बद्धा: सङ्कीर्णा: क्षेत्रभूमय: क्षेत्रविभागाः, [बहुभि:] बहुपरिवारैर्बहुधानेकधा तत्र क्षेत्रे वसतां निवसतामेषणा कुत: ? न कुतोऽपीत्यर्थः ।।२१४।।
किंच ये मुग्धविप्रतारणायांत्मनि पात्रबुद्धिं समारोपयन्तो विनापि कारणमपरपरिग्रहाणि प्रत्युपेक्षन्ते तानुपालम्भयन्नाह-का वैदग्धी का विदग्धता ? कुतो धर्म: ? न कुतोऽपीत्यर्थः, मुक्त्वा विहाय मुग्धमोहनमज्ञजनविप्रतारणम् ॥२१५।।
परमार्थतस्ते धार्मिका एव न भण्यन्ते इति दर्शयन्नाह-सर्वलोकविरुद्धानीति सुगम: श्लोक:
॥२१६॥
किंच-एतस्मिन् दुःषमाकाले पञ्चमारकलक्षणे विप्रकीर्णवचस्विनामर्दवितर्दवादिनां तत्पक्षपातकारिणां पर्यन्तोऽपि सीमापि न लभ्यते न प्राप्यते, बहुत्वादेवंविधवादिनां तत्पक्षपातिनां च कालदोषादिति हृदयम् ।।२१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org