SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ अधिकार ९ / श्लोक २००-२२१ / लोकविरुद्धत्यागोपदेशः २३१ इत्येवममुनोल्लेखेन निन्दको दषको निन्द्यते दृष्यते जने लोके, किं च सर्वजननिन्दकस्येहैव दोषमाह-राजादिनिन्दको भूपादिहीलक इहैवास्मिन्नेव जन्मनि कोऽप्यतिमुखर: कारागारे गुप्तिगृहे प्रवेश्यते प्रक्षिप्यते ॥२०२।। ऋजुधर्मस्य प्राञ्जलधर्मस्य कर्तारं विधातारं प्राणिनं देहिनं वीक्ष्याऽवलोक्य [पापभाक्] पापप्रकृतिर्हसत्येव प्रकटया गिरा, यथा तस्य ऋजुधर्मकर्तुर्धर्मभ्रंशो धर्मापगमो [प्र]जायते भवति ॥२०३॥ सांप्रतं लोकविरुद्धवादिना सह सङ्गोऽपि न कार्य इति दर्शयन्नाह-सर्वलोकविरुद्धेनेति सुगम, नवरं गण्यते मन्यते तत्तुल्यो विरुद्धवादिन: समानः ॥२०४॥ किंच-यत्रावासो यत्र निवसनं तदाचारचातुर्यं नैपुण्यं शस्यते श्लाघ्यते जने लोके, अतीवातिशयेनोल्बणवेष: षिड्गवेषो विरुद्धः प्रतिभासतेऽसङ्गत: प्रतिभासते ॥२०५॥ अन्यच्च-पुरग्रामप्रवेशेष्वित्यादि सुगमं, नवरं कीर्तिकामेन कीर्तिवाञ्छया, येन जनो जानात्ययमत्र दातेति ॥२०६|| साधूनां शिष्टानां व्यसनमापदं दृष्ट्वाऽवलोक्य हृष्यते हृष्टो भवति तन सङ्गतं न युक्तं, प्रतीकारं च प्रतिविधानं च न कुरुते न विदधाति सति सामर्थ्य सत्यां शक्तौ तदपि न सङ्गतमिति शेष: ॥२०७।। साधुभक्ता: शिष्टभक्ता जना लोका येन कारणेन तन्निन्दा नैव सङ्गता नैवोचिता, ये तु तामपि कुर्वन्ति ते नूनं निश्चितमधमाधमाः, जघन्यानामपि जघन्या इत्यर्थः ॥२०८।। समस्ति विद्यते जीवनोपाय: प्राणनोपाय:, स्वस्तुतिमात्मश्लाघां परनिन्दां च परदोषग्रहणात्मिकां कथं कुर्वन्ति ते जना: ? न सङ्गतमेतदिति ॥२०९।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy