SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २३० आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके अनुष्ठानानि तान्येव, स एव च जिनागमः । परमाजीविकाहेतो-दण्डादण्डिसमर्गलम् ॥२१२॥ यो यथा कुरुते पुण्यं, स तथा लभते फलम् । किमिदं क्रियते लोका: !, केशाकेशि निरर्थकम् ? ॥२१३॥ स्वपक्षपरपक्षाभ्यां, सम्बद्धाः क्षेत्रभूमयः । बहुभिर्बहुधा तत्र, वसतामेषणा कथम् ? ॥२१४।। अन्यत्रान्यत्र तत्रैव, तिष्ठतां कारणं विना। का वैदग्धी कुतो धर्मो, मुक्त्वैकं मुग्धमोहनम् ? ॥२१५॥ सर्वलोकविरुद्धानि, जल्पन्ति दुर्जना जनाः । धार्मिकाः कथमुच्यन्ते, स्वपरोद्वेगकारिण: ? ॥२१६॥ एतस्मिन् दुःषमाकाले, विप्रकीर्णवचस्विनाम् । तत्पक्षपातिनां चैव, पर्यन्तोऽपि न लभ्यते ॥२१७॥ सङ्क्लेशपरिहारेण, धर्मो वीरेण दर्शितः। तापसाश्रममुत्सृज्या-ऽसमयेऽन्यत्र गच्छता ॥२१८॥ धर्मलोकविरूद्धानि, शक्त्या य: परिवर्जयेत् । सोऽर्थसिद्धिं सुकीर्तिं च, लभते शुभसङ्गवत् ॥२१९।। धर्मलोकविरुद्धानि, नि:शङ्को य: समाचरेत् । सोऽर्थहानिमकीर्तिं च, लभतेऽत्र कुसङ्गवत् ॥२२०॥ तस्माल्लोकविरुद्धानां, परिहार: पुण्यकारणम् । तत्रादरो महान् कार्यो, विदुषा धर्ममिच्छता ॥२२१॥ इति श्लोकद्वाविंशतिः प्राय: सुगमैव, तथापि शिष्यहितार्थं किञ्चिदुच्यते-तत्र लोको जन: प्रायश: प्राचुर्येण बोको जडो ध्यान्ध्यान्मतिमान्द्यादन्धायते [तराम्]-अन्ध इवाचरतितरामतिशयेन सन्मार्गपदन्यासे प्रस्खलन्नापराध्यति ॥२०॥ लोकविरुद्धवाचकत्वमेव दर्शयति-राजानो महीपतयो न प्रजापाला न जनचिन्तका:, मन्त्रहीना मन्त्रविकला मन्त्रिणो मन्त्रकर्तारः, आचार्या: सूरयो नाममात्रेण नाम्नैव, वाचका उपाध्याया वाचनां पाठनां विनान्तरेणापि, ॥२०१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy