________________
लोकविरुद्धाधिकारः ९
,
कषायविपाकवेदिभिर्लोकविरुद्धान्यपि परिह्रियन्ते, [ अत: ]दनन्तरं लोकविरुद्धाधिकार उच्यतेलोक: सर्वोऽप्ययं बोको, ध्यान्ध्यादन्धायतेतराम् । - सन्मार्गपदन्यासे च प्रस्खलन्नापराध्यति ॥ २००॥ राजानो न प्रजापाला, मन्त्रहीनाश्च मन्त्रिणः । आचार्या नाममात्रेण, वाचका वाचनां विना ॥ २०१ ॥ इत्येवं सर्वलोकस्य, निन्दको निन्द्यते जने । राजादिहीलकः कोऽपि, कारागारे प्रवेश्यते ॥ २०२ ॥ | ऋजुधर्मस्य कर्तारं प्राणिनं वीक्ष्य पापभाक् । हसत्येव यथा तस्य, धर्मभ्रंशः प्रजायते ॥ २०३ ॥ सर्वलोकविरुद्धेन, नरेण सह सङ्गतिम् ।
,
कुरुते सोऽपि तत्तुल्यो - शेषलोकेन गण्यते ॥ २०४॥ यत्रावासस्तदाचार - चातुर्य शस्यते जने । अतीवोल्बणवेषो हि, विरुद्धः प्रतिभासते ॥ २०५ ॥ पुरग्रामप्रवेशेषु, निर्गमेषु च दीयते । यद्दानं कीर्तिकामेन, लोके तदपि हस्यते ॥ २०६ ॥ साधूनां व्यसनं दृष्ट्वा, 'हृष्यते तन्न सङ्गतम् । प्रतीकारं तु सामर्थ्ये, सति न कुरुतेऽपि यः ॥२०७॥ साधुभक्ता जना येन, तन्निन्दा नैव सङ्गता ।
ये तु तामपि कुर्वन्ति, ते नूनमधमाधमाः ॥ २०८॥ समस्ति जीवनोपायो, येषामन्योऽपि कोऽप्यहो । स्वस्तुतिं परनिन्दां च कथं कुर्वन्ति ते जना: ? ।।२०९ || महापापवतामेतन्महल्लिङ्गं प्रकीर्तितम् ।
एकं परजने निन्दा, स्वप्रशंसा द्वितीयकम् ॥ २९० ॥ यदि धर्मः कर्तुमारब्धः, स एव क्रियतां जना:: ! परनिन्दा महापापा, कथ्यतां क्वोपयुज्यते ! ।।२११॥
१ टीका । हस्यते - BPJC मु. 11
Jain Education International
२२९
For Private & Personal Use Only
www.jainelibrary.org