________________
२२८
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
इत्यादि बहु सञ्जल्प्य, जमामाग्निशिखासुरः । रुद्रदेवोऽपि संविग्नः, पर्वतं प्रत्यभाषत ॥१७८॥ रेरे आवां न कस्यापि, कदापि क्वापि सङ्गतौ । स्वकीयेनैव दोषेण, मानी त्वं क्रोधवानहम् ॥१७९।। तस्मादेतौ परित्यज्य, गत्वा स्वगुरुसन्निधौ । मूलादालोचनां कृत्वा, कुर्वः संयममुत्तमम् ॥१८०॥ तथैव कृतवन्तौ तौ, जातौ च गुरुसंमतौ । साधूचितेषु कृत्येषु, वर्तेते शुभभावत: ॥१८१॥ समाराधितवन्तौ च, क्षमया विनयेन च । तप:संयमशीलैश्च, सबालस्थविरं गणम् ॥१८२।। अन्यदोल्लासितोद्दाम-विशुद्धघ्यानवह्निना। निर्दह्य घातिकर्माणि, प्रापतु: केवलश्रियम् ।।१८३॥ पालयित्वा चिरं चारु, चारित्रं च यथोदितम् । भवोपग्राहिकर्माणि, क्षपयित्वा शिवं गतौ ॥१८४।। एवं च गुणहीनौ तौ, पूर्वं भूत्वा तथाविधौ । पश्चात्सर्वगुणोपेतौ, जातौ सर्वजनोत्तमौ ॥१८५॥
यतोऽत्यन्तमचिन्त्येयं, शक्ति वस्य विदयते। द्रागेव सर्वकर्माणि, येनासौ क्षपयत्यलम् ।।१८६॥ इति मत्वा न कर्तव्या, हीला कस्यापि देहिनः । निर्गुणोऽपि यतो भूत्वा, जायते सगुणो नरः ॥१८७॥
इति रुद्रदेवकथानकं समाप्तं
[अष्टम: कषायाधिकारः समाप्त:]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org