________________
अधिकार ८ / लोक १९९ / कषायविपाके रुद्रदेवकथा
रागद्वेषातुरो जीवः, कामक्रोधवशं गतः । लोभमोहमहाविष्टः संसारे संसरत्यसौ ॥ १४९॥ संसारे पर्यटन् जन्तु-र्योनिलक्षसमाकुले । शारीरमानसं दुःखं, सम्प्राप्नोत्यतिदारुणम् ॥ १५० ॥ आर्त्तरौद्रमना मूढो, न करोत्यायतौ हितम् । तेनासौ सर्वतः क्लेशं, परत्रेह च गच्छति ॥१५१॥ कषायविषयार्तानां, देहिनां नास्ति निर्वृतिः । तेषां च विगमे सौख्यं जायते सततं परम् ॥१५२॥ कषायविषयात-रात्मायं पीडितः सदा । चिकित्सनीयो यत्नेन, जिन्वाक्सारभेषजैः ॥ १५३॥ विषयोरगदष्टस्य, कषायविषवेगिनः । संयमो हि महामन्त्र - स्त्राता सर्वत्र देहिनाम् ॥१५४॥ कषायकलुषो जीवो, रागाकुलितमानसः । चतुर्गतिमहाम्भोधौ, पाषाण इव मज्जति ॥ १५५ ॥ विषयेषु रतो जीवः, कर्मबध्नाति दारुणम् । तेनासौ क्लेशमाप्नोति, भ्राम्यन् भीमे भवोदरे ॥ १५६॥ कषायविजये सौख्य-मिन्द्रियाणां च निग्रहे । जायते परमं सात-मात्मनो भवभेदकम् ॥१५७॥ कषायान् शत्रुवत्पश्ये-द्विषयान् विषवत्तथा । मोहं च परमं व्याधि - मेवमूचुर्जिनेश्वराः || १५८॥ कषायशत्रवो बाढं, धर्मकार्यजिघांसवः । वैराग्यतीक्ष्णखड्गेन, खण्डनीया महाबलैः ॥१५९॥ इत्यादि भवसंवर्धि, कषायाणां सुदारुणम् । विपाकं कटुकास्वादं, कथयित्वा मुनिः स्थितः ॥ १६० ॥ आकर्ण्यमां मुनेः पार्श्वे महामोहविडम्बनाम् । लोकः संवेगमापन्नो, धर्मे बहु मनो ददौ ॥१६१॥ तथा बभ्रुर्भुजङ्गश्च, नकुली च भुजङ्गिनी । शुनी च शिलया चैव, सर्वाण्यपि विशेषतः ॥ १६२॥ भीतान्यतीवदुर्वार-कषायारातिसंहतेः । संवेगरससन्दोह-शीतीभूतवपूंषि च ॥१६३॥ जातजातिस्मराण्युच्चै-स्त्यक्त्वा वैरानुबन्धनम् । गृहीत्वानशनं मृत्वा, सर्वाण्यपि दिवं ययुः || १६४|| रुद्रदेवोऽपि संविग्न, द्विग्नश्च भवभ्रमात् । सपुत्रः सह तेनैव, ज्ञानगर्भेण साधुना ॥ १६५ ॥ श्रुतसागरसंज्ञस्य, गत्वा सूरेः पदान्तिके । जग्राह भावतो दीक्षां, संसारोच्छेदकारिणीम् । १६६। साधुभि: शिक्ष्यमाणश्च साधुकृत्येषु केषुचित् । तेभ्यः पूर्वप्रयोगेण, रुद्रदेवः प्रकुप्यति ॥ १६७॥ पर्वतोऽपि न कस्यापि, करोति प्रणतिं किल । गाढं तु भण्यमानौ तौ, कलहं कुरुतोऽधिकम् ।। १६८ ।। अयोग्याविति विज्ञाय, ततस्तौ गुरुणा गणात् । निष्कासितौ गतौ पश्चादन्यत्र च गणान्तरे ॥ १६९ ॥ तत्रापि च तथैवैतौ, वर्तेते प्रतिवासरम् । निष्कासितौ च तौ गच्छा - तथैव गुरुणा निजात् ॥ १७० ॥ एवमनेकगच्छेषु, कृतसङ्क्रमनिष्क्रमौ । कालेनैकाकिनौ जातौ, सुखशीलौ विशेषतः ||१७१॥ अन्यदाग्निशिखादेवः, प्रतिबोधकृते तयोः । कृत्वा चाग्निशिखारूपं निशि तत्र समाययौ ॥ १७२ ॥ पृष्टा च रुद्रदेवेन, कुतोऽसि त्वमिहागता ! | स्वर्गमनादिवृत्तान्तं, सापि तस्मै न्यवेदयत् ॥१७३॥ स प्राहाऽविरतापि त्वं किमित्यावां न वन्दसे । सा बभाण न वन्देऽहं, संयमबिकलान्मुनीन् ॥१७४॥ रोषदोषेण दुष्टस्त्वं, मानदोषेण पर्वतः । कुतो युवकयोः क्षान्ति:, कुतो वा बत मार्दवम् ॥ १७५ ॥ कुतस्तपः कुतो धर्मः, कुतो वा वरसंयमः । तद्धो युवां समीहेथे, वन्दनं केन हेतुना ? ॥१७६॥ दया क्षान्तिस्तपः सत्यं, संयमश्चैव वन्द्यते । युवयोश्च न सन्त्येते, वन्दे वां तदहं कथम् ॥१७७॥
T
I
Jain Education International
For Private & Personal Use Only
२२७
www.jainelibrary.org