________________
२२६
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
ततस्तौ च निधानार्थं, द्वावप्याबद्धमत्सरौ । प्रत्यहं कृतसंयुद्धौ, कथञ्चिन्न विरेमतुः ॥१२२।।
अन्यदा रुद्रदेवोऽपि, बहिष्टादागतो गृहे । कृतपर्यस्तिकं पुत्रं, ददर्श पर्वताभिधम् ॥१२३॥ तत: प्रयोजने क्वापि, सत्वरं तमुवाच स: । रे रे उत्थीयतां शीघ्रं, क्रियतां मामकं वचः ॥१२४॥ सोऽप्यन्यत्यमनम्रत्वा-त्सगर्वत्वान्निसर्गतः । मूकक इव तूष्णीको, न ददौ पितुरुत्तरम् ॥१२५॥ तत: पित्रा सुदुर्वाक्य-निर्भर्त्सतो मुहुर्मुहुः । रेरे जघन्य ! निश्चेष्ट !, व्यवसायविवर्जित! ॥१२६॥ नैवात्मापि चरे भर्तुं, त्वयका पाप पार्यते। आस्तामन्यस्य कस्यापि, कार्यं किञ्चित्करिष्यसि।१२७/ सोऽपि प्रोवाच हे तात!, त्वयापि क्रियते न किम् । कोपावेशेन येनैवं, रारटीसि निरर्थकम् ॥१२८॥ ममाज्ञाभङ्गकारीति, प्रत्युवाच च सन्मुखम् । रुद्रदेवस्तत: क्रुद्धः, सावेश: पर्वतं प्रति ॥१२९॥ एवं च पितृपुत्राभ्यां, स्वपरक्लेशकारकः । वर्धित: कलहो दूरं, जल्पितप्रतिजल्पितैः ॥१३०॥ अथ प्रयुध्यमानौ च, भुजङ्गनकुलावुभौ । गृहाङ्गणे समायातौ, बद्धामर्षों परस्परम् ।।१३१॥ अनेनैव प्रकारेण, सर्पिणी नकुली तथा । युध्यमाने समायाते, तस्मिन्नेव गृहाङ्गणे ॥१३२॥ अथ कार्येण केनापि, निधानासन्नमागता। शिलापि तत्र तिष्ठन्त्या, दष्टा शुनिकया तया ॥१३३।। शिलयापि च सा रोषा-ल्लकुटेनाहता दृढम् । मुक्त्वा राटिं ततो नंष्ट्वा, गता तत्र गृहाङ्गणात् ॥१३४|| शिलापि शुनिकादंश- वेदनार्दितमानसा । आक्रन्दन्ती समागत्य, तस्मिन्नेवाजिरेऽपतत् ॥१३५।। अथ तादृशमाश्चर्यं, विलोक्यादृष्टपूर्वकम् । प्रभूतो मिलितो लोकः, कौतुकाक्षिप्तमानसः ॥१३६।। अत्रान्तरे वरज्ञानी, भिक्षां भ्राम्यन् समागतः । ज्ञानगर्भाभिध: साधु:, साधुधर्मे कृतोद्यमः ॥१३७॥ पृष्टोऽसौ रुद्रदेवेन, तदाश्चर्यनिबन्धनम् । यथा भो: ! कथ्यतां मह्यं, किमेवमसमञ्जसम् ॥१३८॥ युद्धयमानौ विलोक्येते, द्वावेतौ नकुलोरगौ । सर्पिणी नकुली चैते, शुनिका च शिला तथा ॥१३९॥ किमर्थं युद्धमेतेषां, साधो साधय साधय । साधुराह महाभाग, कथ्यते ते निशामय ॥१४०॥ तत: सर्वोऽपि वृत्तान्तो-ऽग्निशिखामरणादिकः । कथितो रुद्रदेवाय, मूलादारभ्य साधुना ॥१४१॥ तथा महाप्रबन्धेन, तस्मै शेषजनाय च । संवेगार्थं समाख्यातं, महामोहविजृम्भितम् ॥१४२।। तद्यथा
कर्मणा मोहनीयेन, मोहितं सकलं जगत् । धन्या मोहं समुत्सृज्य, तपस्यन्ति विमुक्तये॥१४३॥ अहो मोहस्य महात्म्यं, विद्वांसोऽपि यतो नरा: । मुह्यन्ति धर्मकृत्येषु, रता: कामार्थयोदृढम् ।।१४४॥ क्रोधो मानस्तथा माया, लोभश्चेति महाद्विषः । बाधयन्ति सदा लोकं, निरालोकं निरुद्यमम् ।।१४५।। एतैर्हि निर्जिता याव-त्तावत्सौख्यं कुतो नृणाम् । धर्मवार्ता तु कौतस्त्या, शरीरस्थैरिमैरहो ॥१४६॥ एते हि तस्करा घोरा, भवाटव्यां प्रतिक्षणम् । मुष्णन्ति धर्मसर्वस्वं, शीघ्रमेव प्रमादिनाम् ॥१४७॥ नास्ति क्रोधसमो वह्नि- स्ति मानसमोऽचल:। आपन्मायासमा नास्ति, नोदधिर्लोभसन्निभः ॥१४८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org