________________
अधिकार ८ / श्लोक १९९ / कषायविपाके रुद्रदेवकथा
२२५
सहिरण्य एव नस्तात, तस्मादाराध्यतामिति । एवमिति प्रतिज्ञातं, सर्वैः सानन्दमानसैः ॥१४॥ कपटेनार्थलोभेन, पादप्रधावनादिकम् । कुडङ्ग-सागरौ सर्वं, विशेषात्कुरुत: पितुः ॥१५॥ पर्वत: पर्वत इव, स्तब्धो लोहकुशीव स: । स्वपितुर्विनयं किञ्चि-न्न करोति कदाचन ॥९॥ कुडङ्गसागराभ्यां च, नित्यं कर्कशसेवया। परवञ्चनदक्षाभ्यां, पितुरावर्जितं मनः ॥२७॥ ततश्च रुद्रदेवेन, बाढं रञ्जितचेतसा । कुडङ्गसागरौ द्रव्यं, सर्वमेव प्रदर्शितम् ॥९८॥ पर्वत: पुनरत्यन्त-मनम्रत्वादुपेक्षित: । निर्गुणेषु हि लोकेषु, नूने युक्तमुपेक्षणम् ॥९९॥ अन्यदा च कुडङ्गेन, सार्धं सागरबन्धुना । तत उत्पाट्य तद् द्रव्यं, गृहीत्वान्यत्र गोपितम् ॥१००। क्रमेणैव पितुः सर्वं, त्यक्तं विश्रामणादिकम् । तेनापि च सशङ्केन, द्रव्यस्थानं निभालितम् ॥१०१।। न दृष्टं तत्र तद् द्रव्यं, पृष्टौ तेन निजाङ्गजौ। तावाहतुर्न जानीवो, हृतं केनापि पापिना ॥१०२॥ श्रुत्वेदं रुद्रदेवोऽपि, जाताशङ्क: सुतानभि । आकारसंवरं कृत्वा, तूष्णींभावमुपागतः ॥१०३।। अन्यदाग्निशिखायै स, रुद्रदेवेन मूलत: । स्वद्रव्यनाशवृत्तान्त:, समग्रोऽपि निवेदित: ।।१०४॥ अग्निशिखापि वृत्तान्तं, द्रव्यप्रणाशगोचरम् । रुद्रदेवाय सन्त्रस्ता, समाख्यच्च सविस्तरम् ॥१०५॥ श्रुत्वेदं च तत: क्रुद्धो, रुद्रदेवो जनीं प्रति । अत्यन्तासत्यदुर्वाक्यै-स्तामाक्रोशितवांश्च सः ॥१०६।। हे मूर्खे मुग्धके पापे, ज्ञानविज्ञानवर्जिते !। वधूभ्या किं त्वया द्रव्यं, मामनापृच्छय दर्शितम्? ।१०७/ एतत् श्रुत्वातिरोषेण, सापि तं प्रत्यभाषत । त्वयापि किं स्वपुत्राभ्यां, स्वकं द्रव्यं प्रकाशितम्।१०८॥ एवमादि मिथो बाढ-मसमञ्जसभाषणैः । चिरं वाक्कलहं घोरं, दण्डादण्डिं च चक्रतुः ।।१०९॥ रुद्रदेवो वदत्येक-मग्निशिखा द्वयं तत: । यदि घातं ददात्येष, तदा सापि जिघांसति ॥११०।। एवं च युध्यमानेन, रुद्रदेवेन रोषत: । ताडिताग्निशिखा क्वापि, गाढघातेन मर्मणि ॥१११।। मृता च दैवयोगेन, मृत्वा तत्रैव मन्दिरे । आर्तध्यानवशादेषा, जाता घोरभुजङ्गिनी ॥११२।। अधिष्ठितं च मूर्छात-स्तया स्वं तन्निधानकम् । आस्ते तत्रैव सा नित्यं, विषसम्भृतदंष्ट्रिका ॥११३।।
अन्यदा निकृति: शाठ्या-द्वञ्चित्वा किल सञ्चयाम् ।
गृह्णामीति निधानं त-दुत्खनन्ती द्रुतं द्रुतम् ॥११४|| सन्दष्टा दुष्टसर्पिण्या, विषवेगातुरा सती । मृत्वा तत्रैव सञ्जाता, नकुली धनगृद्धितः ।।११५॥ ततो द्वे अपि कोपान्धे, प्रयुध्येतां प्रतिक्षणम् । तस्यैव स्वनिधानस्य, प्रत्यासन्ने परस्परम् ॥११६।। सञ्चयापि विसर्पन्ती, निधानासन्नमन्यदा । दष्टा तया भुजङ्गिन्या, दृढं द्रविणलुब्धया ।।११७।। तस्मिन्नेव निजे गेहे, महामोहविमोहिता। मृत्वार्तध्यानयोगेन, शुनिका समजायत ॥११८॥ इतश्च सागरेणापि, निधानाबद्धगृद्धिना । मारितो विषयोगेन, कुडङ्गो दुष्टबुद्धिना ॥११९॥ मृत्वाऽजनि भुजङ्गोऽसौ, तस्मिन्नेव निजे गृहे। अधितस्थौ च लोभेन, तदेव स्वं निधानकम् ॥१२॥ सागरोऽपि च नि:शङ्को, गृह्णामीति खनस्तकत् । दष्टस्तेन भुजङ्गेन, मृत्वा च नकुलोऽजनि ।।१२१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org