________________
२२४
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
सा प्रोवाच यथैवोक्तं, युवाभ्यामेवमेव तत् । जराक्रान्तं शरीरं मे, 'पालयेतं तदादरात् ॥६६॥ ततो द्वे अपि यत्नेन, तांमासेवितुमुद्यते । उचिताभ्यङ्गनस्नान-भोजनाच्छादनादिभिः ॥६७॥ एवं च नित्यमेताभ्या-मतिकर्कशसेवया। सेव्यमाना च सा वृद्धा, परं तोषमुपागता ॥६८॥ तत: सा चिन्तयामास, ताभ्यामाराधिता सतीं। अहो मदीयके वध्वौ, मद्भक्ते च विनीतके ॥६९॥ अहो गुरुजने भक्ति-रहो गुरुषु नम्रता। अहो शीलमहो लज्जा, अहो लोकज्ञताऽनयोः ॥७॥ एते हि मम शुश्रूषां, कुरुत: सर्वयत्नतः । तदहं बाढमेताभ्यां, सद्विनयेन रञ्जिता ॥७१।। एवं गमयते काल-मत्यन्तप्रीतमानसा । निजवधूगुणग्राम, चिन्तयन्ती मुहर्मुहुः ॥७२॥ अथान्यदा तया प्रोक्तं, ते समाहूय साञ्जसम् । यथाहं किञ्चिदाख्यामि, भवतीभ्यां रहस्यकम् ॥७३॥ त आहतुः प्रसादो नौ, कथ्यतां कथ्यतामिति । वृद्धाह पुत्रिके अन्य:, कश्चिदत्र न तिष्ठति ? ॥७४॥ त ऊचतुर्न कोऽपीति, श्रूयतां तर्हि सादरम् । कथयामि युवयोर्यच्च, वृद्धोवाचेति साञ्जसम् ।।७५॥ आशाबन्धकृते मां, दीनाराणां सहस्रकम् । भ; दत्तं मया तच्च, गृहीतं परितुष्टया ॥७६॥ मञ्चकस्यास्य वामस्य, पादस्याध: प्रयत्नतः । दूरं रसातले सम्यक्, निखातमवतिष्ठते ॥७७|| अतो यदि ममाकस्मा-दज्ञातं मरणं भवेत् । ततस्तद् द्रविणं ग्राह्यं, युवाभ्यामेव मामकम् ।।७८|| इति श्रुत्वा निकृत्योक्तं, निकृत्यैव सविस्मयम् । मा वोच ईदृशं वाक्यं, चिरं जीव ममासुभिः ॥७९।। इत्यादिमधुरैर्वाक्यैः, श्वधू सम्बोध्य सादरम् । स्वस्वव्यापारनिष्ठे च, जाते निकृतिसञ्चये ।।८०॥ अन्यदा च समालोच्य, ताभ्यां कृत्वा च निश्चयम्। उत्खातं तत्ततो द्रव्यं, विजनं वीक्ष्य सत्वरम्।८१।। नीत्वान्यत्र निखातं च, दूरैकान्तमहीतले । आवयोरेव चास्त्वेत-दित्यकारि च निश्चयः ॥८२॥ श्वश्रं प्रति च निःशेषो, हासितो विनय: किल । क्रमेणाभ्यङ्गनस्नान-भोजनाच्छादनादिकः।।८३॥ अथ पूर्वप्रयुक्तस्य, हानिं विनयकर्मण: । स्थविरा समीक्ष्य साशङ्का, मनस्येवं व्यचिन्तयत् ।।८४|| वध्वावेते यथाकालं, पूर्वं सर्वप्रयत्नतः । चक्रतुर्विनयं सर्वं, चरणक्षालनादिकम् ॥८५॥ साम्प्रतं सर्वकृत्येषु, मयि मन्दादरे भृशम् । सञ्जाते नैव जानामि, किमत्र बत कारणम् ? ॥८६॥ हुं ज्ञातं च यदाख्यातं, स्वद्रव्यं मुग्धया.मया । मन्ये तल्लब्धमेताभ्यां, तेनैवायमनादरः ।।८७॥ एवमाशङ्कमाना च, यावत्तत्र निरीक्षते । तावन्नैवेक्ष्यते किंचि-ततोऽत्यर्थं शुशोच सा ॥८॥ पृष्टे च ते तया वध्वौ यथा तन्मांमकं वसु । नेक्ष्यते स्थानके तत्र, कथ्यतां किमु कारणम् ? ८९। त आहतुर्विदीनास्ये, निकृत्या साश्रुलोचने । यथावां नैव जानीव:, शपथश्च तवोपरि ॥१०॥ एवं कलुषितस्वान्ता, विश्वासस्नेहवर्जिता: । श्वश्रूर्वध्वौ च तिस्रोऽपि, जाता: साशङ्कमानसाः ॥११॥ इतश्च पितृवृत्तान्तो, निखातद्रव्यगोचरः । निवेदित: कुडङ्गेन, सागराय सविस्तर: ।।९२।।। पर्वताय च नि:शेषो, यथापूर्वमुपश्रुत: । ततस्ते द्रव्यलोभेन, प्रोचुरेवं परस्परम् ॥१३॥ १ पालयेत्थं- BJPC | पालयेधं-मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org