________________
अधिकार ८ / श्लोक १९९ / कषायविपाके रुद्रदेवकथा
२२३
अहं ज्ञानी च मानी च, त्यागी भोग्यहमेव च । सुरूप: सुचिरं चेत्थ-महङ्कारं चकार स: ॥३८॥ देवानप्येष नो नौति, गुरूनपि पितृनपि । किं बहुना न कस्यापि, स्वकं नामयते शिरः ॥३९॥ द्वितीयस्तु कुडङ्गाख्यो, य: कुटिल: कुडङ्गवत् । मायामय इवात्यन्तं, विधिनैष विनिर्मित: ॥४०।। स्थानं कपटकूटानां, वञ्चनानां च मन्दिरम् । निकृतिशब्दसद्धाम, महामायामहाश्रयः ॥४१॥ सागरस्तु महालोभो, यस्य वाञ्छामहाह्रदः । अर्थाम्भसातिदुष्पूरो, नदीभिरिव सागरः ॥४२॥ चक्रवर्तिसमृद्धयापि, स्वर्गस्वामिश्रियापि च । सर्वत्रैलोक्यलक्ष्म्यापि, यस्तृप्तिं नाप्तवानिति ॥४३॥ स्वगृहेऽन्यगृहे वापि, वीक्ष्य वस्तु शुभाशुभम् । वाञ्छितवान् महावाञ्छ-स्तन्मे सम्पद्यतामिति।४४| एषां पुनरिमा भार्या, यथासङ्ख्येन जज्ञिरे । शीलेति निकृतिश्चैव, सञ्चयेति च नामभिः।४५॥ तत्र शीलाभिधा येयं, गृहिणी पर्वतस्य सा । तथा विनयहीना च, भूरिगर्वा स्वभर्तृवत् ॥४६|| या पुनर्निकृतिर्नाम, सा कुडङ्गस्य गेहिनी । सर्वत्रानतिगूढात्मा, घनवंशकुडङ्गवत् ॥४७॥ या चेयं सञ्चयानाम, सागरस्य तु गेहिनी । स्वभर्तेव महालोभा, लुब्धा सर्वेषु वस्तुषु ।।४।। एवं समानशीलत्वं, द्वन्द्वे द्वन्द्वे विनिर्मितम् । तुल्यवस्तुसमायोग-विशेषज्ञेन वेधसा ॥४९।। तदिदं संहतं सर्वं, रुद्रदेवकुटुम्बकम् । कुर्वन्निजनिजाचारं, गमयति स्म वासरान् ॥५०॥ अन्यदा रुद्रदेवेन, वृद्धभावमुपेयुषा । अग्निशिखा निजा भार्या, भणिता श्रूयतां प्रिये! ॥५१॥ अत्यन्तजरयाक्रान्ता-वावां विगतविक्रमौ । लोचने ध्यामलीभूते, न श्रोतुं श्रोतसी क्षमे ॥५२॥ पुत्राश्च यौवनारूढा:, स्वच्छन्दप्रविचारिण: । भक्षयन्ति यथाकामं, मयोपार्जितसम्पदम् ॥५३॥ न कुर्वन्ति मदीयाज्ञां, वीक्षन्ते मामवज्ञया । तत्प्रिये ! नैव पश्यामि, सुन्दरं पुत्रचेष्टितम् ॥५४॥ तदहं ते प्रयच्छामि, दीनाराणां सहस्रकम् । सम्यक्सङ्गोप्यतामेत-दाशाबन्धस्य हेतवे ॥५५॥ एवमस्त्विति सङ्कल्पा, समादाय ततस्तकत्। निष्क्रम्य च तत: स्थाना-देकान्ते निचखान सा॥५६॥ द्वे दीनारसहस्रे तु, निखाते चात्र तिष्ठत: । मृतस्य मे प्रिये ! दद्या, धर्माय विधिपूर्वकम् ॥५७॥ एतत्सर्वं च शुश्राव, कुडङ्गो निकृतिस्तथा । ततो निकृतिरागत्य, सञ्चयायै न्यवेदयत् ॥५८॥ सञ्चयाप्यर्थसंलुब्धा, निकृतिं प्रत्यभाषत । सकिंचना च नः श्वश्रूः, कथञ्चिन्मुष्यतामिति ॥५९।। निकृति: प्राह सानन्दा, नानानिकृतिकारिणी। किं सुगमेऽपि संमूढा, भगिन्यत्र प्रयोजने ॥६०॥ विषमकार्यलक्षेषु, नियूंढाया अनेकश: । स्वश्वश्रूवञ्चनोपायो, न मे भाति सुदुष्करः ॥६१॥ । हे संचये ! महामुग्धे !, द्रविणसंचयार्थिनि ! । तत्कुरु यदहं भाषे, कार्यं येन प्रसिद्धयति ॥६२।। इयं हि जरसाघ्राता, स्नेहाभ्यङ्गादिकाङ्क्षिणी । कर्कशक्रिययाराध्या, सद्भावं नौं प्रयास्यति ॥६३॥ इत्यादिकं समालोच्य, गत्वा श्वश्रूसमीपके। ऊचतुः स्वयमेवैते, तामेवं प्रियया गिरा ॥६४॥ यथा त्वमम्ब! वृद्धासि, न च ते कोऽपि पालकः । अतस्त्वां वारकेणावां, पालयाव: स्वशक्तित:।६५।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org