________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
नन्दनारामवद्धान्ति, काननानि समन्तत: । हिमाद्रिशृङ्गतुल्यानि, रेजुर्देवकुलानि च ॥९॥ यस्मिंश्च सागरायन्ते, विस्तीर्णानि सरांस्यलम्। पुष्पायुधप्रियायन्ते, नवयौवनयोषितः ॥ १०॥ किंबहुना - पुरन्दरपुरस्पर्धि, तत्पुरं सत्समृद्धितः । नरवृन्दारकाकीर्णं, कीर्णरत्नोपराजितम् ॥११॥ रुद्रदेवाभिधस्तत्र, बभूव प्रवरो द्विजः । ब्राह्मणीयसमाचार - समासेवनतत्परः ॥१२॥ ऋजुर्वेदयजुर्वेद - सामवेदविशारदः । तथाऽथर्वणवेदादि श्रुतसागरपारगः ॥ १३ ॥ यजनयाजनाध्याया-ध्यापनादिकृतादरः । जलज्वलनभस्मादि- सदाशौचपरायणः ॥ १४ ॥ एवमादिद्विजातीय-गुणग्रामविराजित: । पिङ्गाक्षः पिङ्गकेशश्च, पिङ्गच्छविशरीरकः ||१५|| परं वह्निरिवात्यन्तं, क्रुद्धः स्वपरतापकः । यस्मादसौ स्वभावेन, रोषणो दारुणस्तथा ॥ १६ ॥ यद्वा तद्वा समाकर्ण्य, यद्वा तद्वा समीक्ष्य च । यद्वा तद्वा समासृत्य, रुष्यत्येष मुहुर्मुहुः ||१७|| यत्र वा तत्र वा स्थाने, येन वा तेन वा सह । कार्यं विनैव रोषेण, युध्यमानः प्रदृश्यते ॥१८॥ समं स्वमित्रपुत्रैश्च, बन्धुसम्बन्धिभिस्तथा । व्यर्थं कलहयत्येष, कोपकम्पितविग्रहः ||१९|| ग्रहग्रस्त इवात्यन्तं महावातास्तधीरिव । धर्मलोकविरुद्धानि, भाषते च करोति च ॥ २० ॥ अतस्तस्य गुणग्रामः, शशाङ्कधवलोऽपि हि । एकेन रोषदोषेण, समग्रोऽपि तिरोहितः ॥ २१ ॥ द्विजस्य तस्य सञ्जज्ञे, यज्ञकार्यविचक्षणा । विशालशीलसंपन्ना, विशालवरवंशजा ॥२२॥ अग्निशिखेति विख्याता, नामतः कर्मतस्तथा । सर्वभार्या वोपेता, प्रवरप्रीतिमन्दिरम् ||२३|| सद्योगभोगसत्त्याग-भाग्यसौभाग्यसङ्गता । स्त्रीजनोचितकृत्येषु सर्वेषु प्रविशारदा ॥२४मा देवानां ब्राह्मणानां च, भक्तिकृद्भर्तृवत्सला । सा ब्राह्मणकुंलाचार - समासेवनतत्परा ॥२५॥ परं सापि स्वभावेन, रोषदोषविदूषिता । अनेकगुणयुक्तापि, प्रशंसामाप नो जने ॥२६॥ रोषविषभरापूर्णा, सर्पिणीवातिदारुणा । रुष्टा सती दुरालोका, जनतोद्वेगकारिणी ॥२७॥ एवं समानशीलौ तौ, दम्पती बत वेधसा । निर्मितौ येन कोपान्धौ द्वावपि कलहप्रियौ ॥२८॥ द्वावपि त्यक्तमर्यादा-वसमञ्जसभाषिणौ । जानन्तावपि संमूढौ, वर्तेते सर्वकर्मसु ॥ २९ ॥ द्वावपि दुष्टवाक्यानि, प्रभाषेते निरर्थकम् । द्वावपि रुष्यतो नित्य - मेवमेव परस्परम् ||३०|| कदाचिद्युध्यमानौ तौ, प्रकुर्वाते अजेमनम् । द्वावपि कुरुतोऽकस्मा - त्केशाकेशि कदाचन ॥३१॥ मुष्टामुष्टि विधत्तश्च, दण्डादण्डि तथैव च । एवं च कुर्वतस्तस्य, कालो याति द्वयस्व च ॥३२॥ नूनं तस्य द्वयस्यापि समानगुणकर्मणः । आनुरूप्यं समालोक्य, विधिना सङ्गमः कृतः ||३३|| वैषयिकसुखासक्तौ, प्रीत्या तौ किल दम्पती । एकस्वभावमापन्नौ, निन्यतुः कालमञ्जसा ||३४|| तयोः सांसारिकं सौख्य-मेवमासेवमानयोः । पुत्रत्रयं समुत्पन्नं, सुन्दराकारधारकम् ||३५|| प्रथमः पर्वतो नाम, कुडङ्गाख्यस्तथापरः । तृतीयः सागरो नाम, सर्वेऽशाश्वतनामकाः ॥३६॥ तत्र पर्वतनामासौ, स्तब्धः सन् पर्वतायते । अनम्रः सर्वलोकाना - मुच्चैः शिरा मदोद्धतः ॥३७॥
२२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org