________________
अधिकार ८ / श्लोक १७९-१९९ / कषायविपाके रुद्रदेवकथा
२२१
निर्दोर्षोऽपि निरपराधोऽपि च मायावी जनसन्त्रासकारणं लोकोद्वेगहेतु: किं चाहे: फणिनो मृतस्यापि न बिभ्यति भयं [न] कुर्वन्ति ? कुर्वन्त्येव ॥१८८॥
येनैवंविघदोषवती माया अत: परित्याज्येति श्लोक: सुगमः ॥१८९॥
दर्शितो मायाविनां दोष:, अथ लोभवतामाह- नदीनाथं तरन्त्येके इति श्लोकः सुगम:, नवरं खनि: सुवर्णाद्याकरः ॥१९२-१९३।। रङ्गभूमौ च वंशाग्रेऽयमपि श्लोक: सुगम:, । नवरं रङ्गभूमौ नर्तनस्थाने ॥१९१॥ यत्सेवां कुर्वत इति श्लोकद्वयं सुगमम् ॥१९२-१९३।।
अथ लोभस्य दुर्जयत्वमाह-स ज्ञानलाभकालेऽपि पञ्चमज्ञानप्राप्तिसमयेऽपि कष्टाद् दुःखेन लोभश्चतुर्थः कषाय: प्रलीयतेप्रलयं नीयते, शेषेष्वपि कषायेषुतिलतैलमिव स्थित: शेषांस्त्रीनपि कषायान् व्याप्य. व्यवस्थित इत्यर्थः, अस्यैव सामर्थ्यमाह अहो इति विस्मये लोभस्य चतुर्थकषायस्य साम्राज्यं, आज्ञेश्वरत्वं यस्य लोभस्याधीन आयऽत्तोखिल: समस्त: जनो लोकः, कोऽर्थः ? लोभायत्त: संस्तत्र तत्र प्रयात्येव यत्र कुत्रापि नीयत इति सुगमम्, इदमेव समर्थयति-यदटन्ति महीमेक इति सुगमः, नवरं रोहणाभिधानं रत्नाधारधराधरं तृडार्ता तृषिता बुभुक्षिता दीना दैन्योपेता: । कषायाधिकारं निगमयन्नाह-ये नरा: क्रोधसंदग्धा इति श्लोकद्वयं सुगममेव, इति श्लोकसप्तविंशते: समासार्थ: ॥१८९-१९९||
इह च बाहुबलिकथानकं सुप्रसिद्धमिति कृत्वा न कथ्यते, रुद्रदेवकथानकं पुनरिदं
इह द्वीपसमुद्राणां, सर्वेषां मध्यवर्तिनि । जम्बूद्वीपाभिधे द्वीपे, जम्बूवृक्षविराजिते ॥१॥ भरताभिधसुक्षेत्रे, पवित्रे धर्मयोगत: । सुक्षेत्रे गुणशस्यानां, चक्रवर्त्यादिभूषिते ॥२॥ अस्त्यनेकजनाकीर्णं, देवेन्द्रपुरसन्निभम् । विबुधानन्ददं रम्यं, प्रवृत्तसततोत्सवम् ॥३॥ समाकीर्णं महाभोगैः, पातालमिव भोगिभि: । महेश्वरकृतावासं, कैलाशमिव सर्वत: ॥४॥ नानावर्णसमाकीर्णं, चित्रकर्मोस्तुष्टिकृत् । पुरपौरगुणोपेतं, नाम्ना विजयवर्धनम्॥५॥ समदृष्टिजनानन्दः, सन्मार्गः सुप्रविस्तरैः । सुदीधैर्यत्र भूभागो, भाति साधुज़नस्तथा ॥६॥ प्राकारो यत्र सद्वृत्त-स्तुङ्गश्च सुमनोहर: । लब्धसाधुप्रतिष्ठश्च, सज्जनश्च विराजते ॥७॥ सत्त्वयुक्ताऽतिगम्भीरा, सुसंवृत्तपयोधरा । सीतेव परदुर्लया , परित: परिखा बभौ ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org